छान्दोग्योपनिषद्भाष्यम्
सप्तमोऽध्यायःचतुर्थः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
तानि ह वा एतानि सङ्कल्पैकायनानि सङ्कल्पात्मकानि सङ्कल्पे प्रतिष्ठितानि समक्लृप्तां द्यावापृथिवी समकल्पेतां वायुश्चाकाशं च समकल्पन्तापश्च तेजश्च तेषाꣳ सङ्‍क्लृत्यै वर्षꣳ सङ्कल्पते वर्षस्य सङ्क्लृप्त्या अन्नꣳ सङ्कल्पतेऽन्नस्य सङ्‍क्लृत्यै प्राणाः सङ्कल्पन्ते प्राणानाꣳ सङ्‍क्लृत्यै मन्त्राः सङ्कल्पन्ते मन्त्राणाꣳ सङ्‍क्लृत्यै कर्माणि सङ्कल्पन्ते कर्मणाꣳ सङ्‍क्लृत्यै लोकः सङ्कल्पते लोकस्य सङ्‍क्लृत्यै सर्वꣳ सङ्कल्पते स एष सङ्कल्पः सङ्कल्पमुपास्स्वेति ॥ २ ॥
तानि ह वा एतानि मनआदीनि सङ्कल्पैकायनानि सङ्कल्पः एको अयनं गमनं प्रलयः येषां तानि सङ्कल्पैकायनानि, सङ्कल्पात्मकानि उत्पत्तौ, सङ्कल्पे प्रतिष्ठितानि स्थितौ । समक्लृपतां सङ्कल्पं कृतवत्याविव हि द्यौश्च पृथिवी च द्यावापृथिवी, द्यावापृथिव्यौ निश्चले लक्ष्येते । तथा समकल्पेतां वायुश्चाकाशं च एतावपि सङ्कल्पं कृतवन्ताविव । तथा समकल्पन्त आपश्च तेजश्च, स्वेन रूपेण निश्चलानि लक्ष्यन्ते । यतस्तेषां द्यावापृथिव्यादीनां सङ्‍क्लृप्त्यै सङ्कल्पनिमित्तं वर्षं सङ्कल्पते समर्थीभवति । तथा वर्षस्य सङ्‍क्लृप्त्यै सङ्कल्पनिमित्तम् अन्नं सङ्कल्पते । वृष्टेर्हि अन्नं भवति । अन्नस्य सङ्‍क्लृप्त्यै प्राणाः सङ्कल्पन्ते । अन्नमया हि प्राणाः अन्नोपष्ठम्भकाः । ‘अन्नं दाम’ (बृ. उ. २ । २ । १) इति हि श्रुतिः । तेषां सङ्‍क्लृत्यै मन्त्राः सङ्कल्पन्ते । प्राणवान्हि मन्त्रानधीते नाबलः । मन्त्राणां हि सङ्‍क्लृप्त्यै कर्माण्यग्निहोत्रादीनि सङ्कल्पन्ते अनुष्ठीयमानानि मन्‍त्रप्रकाशितानि समर्थीभवन्ति फलाय । ततो लोकः फलं सङ्कल्पते कर्मकर्तृसमवायितया समर्थीभवतीत्यर्थः । लोकस्य सङ्‍क्लृत्यै सर्वं जगत् सङ्कल्पते स्वरूपावैकल्याय । एतद्धीदं सर्वं जगत् यत्फलावसानं तत्सर्वं सङ्कल्पमूलम् । अतः विशिष्टः स एष सङ्कल्पः । अतः सङ्कल्पमुपास्स्व — इत्युक्त्वा फलमाह तदुपासकस्य ॥

तथाऽपि कथं संकल्पस्य भूयस्त्वमित्याशङ्क्याऽऽह –

तानीति ।

अयनपर्यायत्वेनोक्तगमनस्य क्रियात्वं व्यावर्तयति –

प्रलय इति ।

इतश्च संकल्पस्याप्यस्ति महत्त्वमित्याह –

समक्लृप्तामिति ।

यतो द्यावापृथिव्यादिषु महत्स्वपि संकल्पानुवृत्तिर्दृश्यतेऽतोऽपि तस्य महत्वं गम्यते न केवलं कारणत्वादेवेत्यर्थः ।

इतश्च तस्य महत्त्वमेष्टव्यमित्याह –

तेषामिति ।

वृष्टेर्द्युलोकादिकार्यत्वात्तदीयसंकल्पस्य तन्निमित्तत्वोपचारात्तस्य भूयस्त्वसिद्धिरित्यर्थः ।

सृष्टिवशादन्नं समर्थीभवतीत्यत्र प्रसिद्धिं प्रमाणयति –

वृष्टेर्हीति ।

अन्नाधीनं प्राणसामर्थ्यमित्यत्र हेतुमाह –

अन्नमया हीति ।

आपोमयः प्राण इत्युक्तत्वात्कथमन्नमयत्वमित्याशङ्क्याऽऽह –

अन्नोपष्टम्भका इति ।

तत्र वाजसनेयकश्रुतिं प्रमाणयति –

अन्नमिति ।

प्राणानां मन्त्राध्ययनकारणत्वं व्युत्पादयति –

प्राणवानिति ।

ततो मन्त्रप्रकाशितकर्मवशादिति यावत् ।

कर्मफलवशाज्जगतः सर्वस्यावैकल्येऽपि कथं संकल्पस्य महत्त्वमित्याशङ्क्याऽऽह –

एतद्धीति ।

तन्महत्त्वे फलितमाह –

अत इति ॥२॥