छान्दोग्योपनिषद्भाष्यम्
सप्तमोऽध्यायःसप्तमः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
स यो विज्ञानं ब्रह्मेत्युपास्ते विज्ञानवतो वै स लोकांज्ञानवतोऽभिसिध्यति यावद्विज्ञानस्य गतं तत्रास्य यथाकामचारो भवति यो विज्ञानं ब्रह्मेत्युपास्तेऽस्ति भगवो विज्ञानाद्भूय इति विज्ञानाद्वाव भूयोऽस्तीति तन्मे भगवान्ब्रवीत्विति ॥ २ ॥
शृणु उपासनफलं विज्ञानवतः । विज्ञानं येषु लोकेषु तान्विज्ञानवतो लोकान् ज्ञानवतश्च अभिसिध्यति अभिप्राप्नोति । विज्ञानं शास्त्रार्थविषयं ज्ञानम् , अन्यविषयं नैपुण्यम् , तद्वद्भिर्युक्तांल्लोकान्प्राप्नोतीत्यर्थः । यावद्विज्ञानस्येत्यादि पूर्ववत् ॥

ज्ञानविज्ञानशब्दयोरर्थभेदं कथयति –

विज्ञानमिति ।

तथाऽपि लोकानामचेतनानां कुतस्तदुभयाश्रयत्वमित्याशङ्क्याऽऽह –

तद्वद्भिरिति ॥२॥

इति श्रीमदानन्दगिरिटीकायां सप्तमाध्यायस्य सप्तमः खण्डः ॥