छान्दोग्योपनिषद्भाष्यम्
सप्तमोऽध्यायःअष्टमः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
स यो बलं ब्रह्मेत्युपास्ते यावद्बलस्य गतं तत्रास्य यथाकामचारो भवति यो बलं ब्रह्मेत्युपास्तेऽस्ति भगवो बलाद्भूय इति बलाद्वाव भूयोऽस्तीति तन्मे भगवान्ब्रवीत्विति ॥ २ ॥
बलं वाव विज्ञानाद्भूयः । बलमित्यन्नोपयोगजनितं मनसो विज्ञेये प्रतिभानसामर्थ्यम् । अनशनादृगादीनि ‘न वै मा प्रतिभान्ति भो’ (छा. उ. ६ । ७ । २) इति श्रुतेः । शरीरेऽपि तदेवोत्थानादिसामर्थ्यं यस्माद्विज्ञानवतां शतमप्येकः प्राणी बलवानाकम्पयते यथा हस्ती मत्तो मनुष्याणां शतं समुदितमपि । यस्मादेवमन्नाद्युपयोगनिमित्तं बलम् , तस्मात्स पुरुषः यदा बली बलेन तद्वान्भवति अथोत्थाता उत्थानस्य कर्ता उत्तिष्ठंश्च गुरूणामाचार्यस्य च परिचरिता परिचरणस्य शुश्रूषायाः कर्ता भवति परिचरन् उपसत्ता तेषां समीपगोऽन्तरङ्गः प्रियो भवतीत्यर्थः । उपसीदंश्च सामीप्यं गच्छन् एकाग्रतया आचार्यस्यान्यस्य च उपदेष्टुः गुरोर्द्रष्टा भवति । ततस्तदुक्तस्य श्रोता भवति । तत इदमेभिरुक्तम् एवमुपपद्यत इत्युपपत्तितो मन्ता भवति ; मन्वानश्च बोद्धा भवति एवमेवेदमिति । तत एवं निश्चित्य तदुक्तार्थस्य कर्ता अनुष्ठाता भवति विज्ञाता अनुष्ठानफलस्यानुभविता भवतीत्यर्थः । किञ्च बलस्य माहात्म्यम् — बलेन वै पृथिवी तिष्ठतीत्यादि ऋज्वर्थम् ॥

लोके बलशब्दार्थे श्वेतकेतुवाक्यं प्रमाणयति –

अनशनादिति ।

कथं तर्हि शरीरसामर्थ्ये बलशब्दप्रयोगस्तत्राऽऽह –

शरीरेऽपीति ।

तदेवेत्यन्नोपयोगजनितमेवेत्यर्थः ।

न केवलं कारणत्वादेव बलं विज्ञानाद्भूयः किन्तु प्रत्यक्षं च तस्य ततो भूयस्त्वमित्याह –

विज्ञानवतामिति ।

तस्माद्बलस्य विज्ञानाद्भूयस्त्वमिति शेषः । समुदितमपि कम्पयते तथाऽन्यत्रापि द्रष्टव्यमिति सम्बन्धः ।

यस्मादेवं बलस्य कारणत्वं विज्ञानस्य च कार्यत्वं तस्मात्ततस्तद्भूयस्त्वमित्येतस्मिन्नर्थे कार्यकारणभावमेतयोरुपपादयति –

यस्मादित्यादिना ।

इतश्च बलस्य भूयस्त्वमेष्टव्यमित्याह –

किंचेति ॥१-२॥

इति श्रीमदानन्दगिरिटीकायां सप्तमाध्यायस्याष्टमः खण्डः ॥