प्राणस्य सर्वास्पदत्वेन भूयस्त्वं कथयति –
नामोपक्रममिति ।
प्रकृतश्रुतिवशात्तदुपक्रमे यस्य जगतोऽस्ति तत्तथा पाठक्रममेवाऽऽश्रित्याऽऽशा चान्ते यस्यास्ति तज्जगत्तथेति विग्रहः । कार्यकारणत्वं क्वाचित्कमुपादानोपादेयत्वं निमित्तनैमित्तिकत्वमपि क्वाचित्कमेव । उत्तरोत्तरभूयस्तया पूर्वस्मात्पूर्वस्मान्नामादेरुत्तरोत्तरवागादिभूयस्त्वेनेति यावत् । स्मृतिनिमित्तः सद्भावो यस्य तत्तथा ।
आशाख्यै रशनापाशैः सर्वतो विपाशितमित्यत्र दृष्टान्तमाह –
बिसमिवेति ।
बिसशब्दो मृणालविषयः । यथोक्तं जगद्यस्मिन्नर्पितं स एष भूयानिति सम्बन्धः ।
सर्वस्य जगतस्तस्मिन्नर्पितत्वमेव दृष्टान्तद्वारा स्पष्टयति –
येन चेति ।
सर्वतो व्यापिनेत्यस्यैव स्फुटीकरणमन्तर्बहिर्गतेनेति ।
प्राणस्याऽऽशायाः सकाशाद्भूयस्त्वमाकाङ्क्षापूर्वकं समर्थयते –
कथमित्यादिना ।
लिङ्गानां व्यष्टीनां संघातः समुदायस्तद्रूपे समष्ट्यात्मनीति यावत् ।
उपाधितद्वतोरैक्यमभिप्रेत्य विशिनष्टि –
प्रज्ञात्मनीति ।
तस्यैवाध्यात्ममधिभूतमधिदैवं चावस्थानं सूचयति –
दैहिक इति ।
प्राणान्तरं व्यावर्तयति –
मुख्य इति ।
यथोक्तेऽस्मिन्प्राणे सर्वं समर्पितमित्युत्तरत्र सम्बन्धः ।
प्रज्ञात्मनीति परमात्मोपाधित्वं प्राणस्योक्तं तदुपपादयति –
यस्मिन्निति ।
तस्मिन्सर्वं समर्पितमिति पूर्ववत्सम्बन्धः ।
किमिति चक्षुरादिषु विद्यमानेषु मुख्यस्यैव प्राणस्य परमात्मोपाधित्वमुपगतमित्याशङ्क्याऽऽह –
यश्चेति ।
प्राणस्येश्वरं प्रति सर्वाधिकारित्वे श्रुत्यन्तरं प्रमाणयति –
कस्मिन्निति ।
ईश्वरं प्रति प्राणस्यैवोपाधिकत्वे हेत्वन्तरमाह –
यस्त्विति ।
अत्रापि पूर्ववदन्वयः ।
प्राणश्छायावदीश्वरमनुगच्छतीत्यत्र श्रुत्यन्तरं प्रमाणयति –
तद्यथेति ।
भूतमात्राः शब्दादयः पृथिव्यादयश्च विषयाः प्रज्ञामात्रासु शब्दादिबुद्धिषु तज्जनकेन्द्रियेषु वेत्यर्थः ।
भवतु तासां प्राणेऽर्पितत्वं तथाऽपि कथं प्राणस्य च्छायावदीश्वरं प्रत्यनुगतिस्तत्राऽऽह –
स एष इति ।
कौषीतकिनां श्रुतिरिति शेषः । प्राणस्य यथोक्तविशेषणवैशिष्ट्यमतःशब्दार्थः ।
व्याख्यातं भागमनूद्यावशिष्टमंशं व्याकरोति –
एवमिति ।
प्राणः प्राणेन यातीत्यस्यार्थमाह –
अत इति ।
सर्वास्पदत्वादिति यावत् ।
प्राणः प्राणेन यातीत्यादेः प्राणो ह्येवैतानि सर्वाणि भूतानीत्यन्तस्य तात्पर्यार्थं संक्षिप्य कथयति –
सर्वमिति ।
दातुर्देयस्य संप्रदानस्य च प्राणाभिन्नत्वं प्रकटयति –
प्राण इति ।
तदपीति दीयमानमुच्यते । स्वस्य संप्रदानस्य च प्राणाभिन्नत्वात्प्राणायैवेत्युक्तम् । प्राणस्य सर्वात्मत्वमतःशब्दार्थः ॥१॥