छान्दोग्योपनिषद्भाष्यम्
सप्तमोऽध्यायःपञ्चदशः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
अथ यद्यप्येनानुत्क्रान्तप्राणाञ्छूलेन समासं व्यतिषन्दहेन्नैवैनं ब्रूयुः पितृहासीति न मातृहासीति न भ्रातृहासीति न स्वसृहासीति नाचार्यहासीति न ब्राह्मणहासीति ॥ ३ ॥
अथ एनानेव उत्क्रान्तप्राणान् त्यक्तदेहनाथान् यद्यपि शूलेन समासं समस्य व्यतिषन्दहेत् व्यत्यस्य सन्दहेत् , एवमप्यतिक्रूरं कर्म समासव्यत्यासादिप्रकारेण दहनलक्षणं तद्देहसम्बद्धमेव कुर्वाणं नैवैनं ब्रूयुः पितृहेत्यादि । तस्मादन्वयव्यतिरेकाभ्यामवगम्यते एतत्पित्राद्याख्योऽपि प्राण एवेति ॥

सति प्राणे पित्रादिषु पित्रादिशब्दानां प्रयुज्यमानत्वमित्यन्वयमुक्त्वा व्यतिरेकमाह –

अथैनानेवेति ।

समस्य पुञ्जीकृत्य व्यत्यस्यावयवान्विभज्येत्यर्थः । यद्यपीत्युपक्रमादेवमपीत्येतत्तथाऽपीत्यस्मिन्नर्थे द्रष्टव्यम् ।

तदेवातिक्रूरं कर्म विशिनष्टि –

समासेति ।

अवयवविभजनमादिशब्दार्थः । तद्देहसंबद्धमित्यत्र तच्छब्दः क्रूरपित्रादिविषयः । यद्यपि त्यक्तप्राणेष्वपि देहेषु पित्रादिशब्दो दृष्टस्तथाऽपि नासौ मुख्यः । तद्विषये क्रूरकर्मानुष्ठानेऽपि शिष्टगर्हादृष्टेरिति भावः ।

उक्तान्वयव्यतिरेकफलमुपसंहरति –

तस्मादिति ॥३॥