छान्दोग्योपनिषद्भाष्यम्
सप्तमोऽध्यायःपञ्चदशः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
प्राणो ह्येवैतानि सर्वाणि भवति स वा एष एवं पश्यन्नेवं मन्वान एवं विजानन्नतिवादी भवति तं चेद्ब्रूयुरतिवाद्यसीत्यतिवाद्यस्मीति ब्रूयान्नापह्नुवीत ॥ ४ ॥
तस्मात् प्राणो ह्येवैतानि पित्रादीनि सर्वाणि भवति चलानि स्थिराणि च । स वा एष प्राणविदेवं यथोक्तप्रकारेण पश्यन् फलतो अनुभवन् एवं मन्वानः उपपत्तिभिश्चिन्तयन् एवं विजानन् उपपत्तिभिः संयोज्य एवमेवेति निश्चयं कुर्वन्नित्यर्थः । मननविज्ञानाभ्यां हि सम्भूतः शास्त्रार्थो निश्चितो दृष्टो भवेत् । अत एवं पश्यन् अतिवादी भवति नामाद्याशान्तमतीत्य वदनशीलो भवतीत्यर्थः । तं चेद्ब्रूयुः तं ब्रह्मादिस्तम्बपर्यन्तस्य हि जगतः प्राण आत्मा अहमिति ब्रुवाणं यदि ब्रूयुः अतिवाद्यसीति, बाढम् अतिवाद्यस्मीति ब्रूयात् , न अपह्नुवीत । कस्माद्धि असावपह्नुवीत ? यत्प्राणं सर्वेश्वरम् अयमहमस्मि इत्यात्मत्वेनोपगतः ॥

प्राणस्यैव पित्रादिसंज्ञकत्वे किं स्यादित्याशङ्क्याऽऽह –

तस्मात्प्राणो हीति ।

प्राणस्य भूयस्त्वमित्थं व्युत्पाद्य तद्विज्ञानफलमाह –

स वा इति ।

प्राणविदतिवादी भवतीति सम्बन्धः ।

कथं प्राणवित्त्वमित्यपेक्षायामाह –

एवमिति ।

सर्वात्मत्वं यथोक्तप्रकारः फलतोऽनुभवः स्वरूपत्वेन साक्षात्कारः ।

तदनुदर्शनेनैव प्राणवित्त्वे सिद्ध्यति सति किमिति मननविज्ञाने पृथगुपन्यस्येते तत्राऽऽह –

मननविज्ञानाभ्यां हीति ।

उक्तान्वयव्यतिरेकाख्योपपत्तिसहकृताद्वाक्याद्यत्प्राणविषयं ज्ञानं जायते तदत्र विज्ञानं विवक्ष्यते । तत्फलसाक्षात्करणं दर्शनमिति भेदः । मननविज्ञाने विना दर्शनासंभवोऽतःशब्दार्थः । एवं मननादिद्वारेणेति यावत् ।

अतिवादित्वं व्युत्पादयति –

नामादीति ।

नापह्नुवीतेत्युक्तं व्यक्तीकरोति –

कस्मादिति ।

यद्यस्मादयं विद्वानात्मत्वेन सर्वेश्वरं प्राणोऽस्मीत्युपगतवांस्तस्मादपह्नवे हेत्वभावादात्मनोऽतिवादित्वं नापह्नुवीतेति(त्यर्थः) ॥४॥

इति श्रीमदानन्दगिरिटीकायां सप्तमाध्यायस्य पञ्चदशः खण्डः ॥