छान्दोग्योपनिषद्भाष्यम्
सप्तमोऽध्यायःषोडशः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
स एष नारदः सर्वातिशयं प्राणं स्वमात्मानं सर्वात्मानं श्रुत्वा नातः परमस्तीत्युपरराम, न पूर्ववत्किमस्ति भगवः प्राणाद्भूय इति पप्रच्छ यतः । तमेव विकारानृतब्रह्मविज्ञानेन परितुष्टमकृतार्थं परमार्थसत्यातिवादिनमात्मानं मन्यमानं योग्यं शिष्यं मिथ्याग्रहविशेषात् विप्रच्यावयन् आह भगवान्सनत्कुमारः —

अत्र प्राणान्तमुपदेशं श्रुत्वा नारदस्य तूष्णीभावे किं कारणमित्याशङ्कायामाह –

स एष इति ।

कथं तस्योपरतिरवगतेत्याशङ्क्याऽऽह –

न पूर्ववदिति ।

किमिति तर्हि प्राप्तायामुपेक्षायां स्वयमेवाऽऽचार्यो व्युत्पादयतीत्याशङ्क्याऽऽह –

तमेवमिति ।

“एतस्माज्जायते प्राण” (मु.उ. २ । १ । ३) इति श्रुत्यन्तरात्प्राणस्य विकारत्वेनानृतत्वं “वाचाऽऽरम्भणं विकारो नामधेयम्” (छा.उ. ६ । १ । ४) इत्युक्तम् । तस्मिन्ननृते प्राणे ब्रह्मणि विज्ञानं तेनेति यावत् ।

परितुश्ष्टत्वे कथमकृतार्थत्वमित्याशङ्क्य मिथ्याज्ञानशालित्वादित्याह –

परमार्थेति ।

न च तस्योपेक्षार्हत्वमित्याह –

योग्यमिति ।

मिथ्याग्रहविशेषो नास्ति प्राणात्परमित्यभिमानः ।