छान्दोग्योपनिषद्भाष्यम्
सप्तमोऽध्यायःएकविंशः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
यदा वै करोत्यथ निस्तिष्ठति नाकृत्वा निस्तिष्ठति कृत्वैव निस्तिष्ठति कृतिस्त्वेव विजिज्ञासितव्येति कृतिं भगवो विजिज्ञास इति ॥ १ ॥
यदा वै करोति । कृतिः इन्द्रियसंयमः चित्तैकाग्रताकरणं च । सत्यां हि तस्यां निष्ठादीनि यथोक्तानि भवन्ति विज्ञानावसानानि ॥

निष्ठानिदानं कृतिं विभजते –

कृतिरिति ।

कथं पुनरेतेषामुत्तरमुत्तरं पूर्वस्य पूर्वस्य कारणीभवति तत्राऽऽह –

सत्यां हीति ॥१॥

इति श्रीमदानन्दगिरिटीकायां सप्तमाध्यायस्यैकविंशः खण्डः ॥