छान्दोग्योपनिषद्भाष्यम्
सप्तमोऽध्यायःद्वाविंशः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
यदा वै सुखं लभतेऽथ करोति नासुखं लब्ध्वा करोति सुखमेव लब्ध्वा करोति सुखं त्वेव विजिज्ञासितव्यमिति सुखं भगवो विजिज्ञास इति ॥ १ ॥
सापि कृतिः यदा सुखं लभते सुखं निरतिशयं वक्ष्यमाणं लब्धव्यं मयेति मन्यते तदा भवतीत्यर्थः । यथा दृष्टफलसुखा कृतिः तथेहापि नासुखं लब्ध्वा करोति । भविष्यदपि फलं लब्ध्वेत्युच्यते, तदुद्दिश्य प्रवृत्त्युपपत्तेः । अथेदानीं कृत्यादिषूत्तरोत्तरेषु सत्सु सत्यं स्वयमेव प्रतिभासत इति न तद्विज्ञानाय पृथग्यत्नः कार्य इति प्राप्तम् ; तत इदमुच्यते — सुखं त्वेव विजिज्ञासितव्यमित्यादि । सुखं भगवो विजिज्ञास इत्यभिमुखीभूताय आह ॥

कृतिस्तर्हि कुतो भवतीति तत्राऽऽह –

साऽपीति ।

यदा सुखं लभते तदा भवतीति सम्बन्धः ।

ननु सुखलाभस्येन्द्रियसंयमादिव्यतिरेकेणाभावात्कथं सुखलाभाधीना कृतिरित्याशङ्क्याऽऽह –

सुखमिति ।

वक्ष्यमाणसुखलब्धव्यत्वाभिमानादेव यथोक्ता कृतिः सिद्ध्यतीत्यर्थः ।

सुखं लब्ध्वा करोतीत्येतद्दृष्टान्तेन साधयति –

यथेति ।

दृष्टं फलं पुत्रपश्वादि तज्जन्यसुखोद्देशपूर्विका लोके कृतिर्दृष्टा तथाऽऽत्मन्यपि सुखं लब्ध्वैव करोति न तु विना तदुद्देशमित्यर्थः ।

नन्विन्द्रियाणां मनसश्च संयमपूर्वकं सुखं भवति तथा च कथं तल्लब्ध्वा करोतीत्युच्यते तत्राऽऽह –

भविष्यदपीति ।

उत्तरग्रन्थमाकाङ्क्षापूर्वकमुत्थापयति –

अथेत्यादिना ॥१॥

इति श्रीमदानन्दगिरिटीकायां सप्तमाध्यायस्य द्वाविंशः खण्डः ॥