छान्दोग्योपनिषद्भाष्यम्
सप्तमोऽध्यायःत्रयोविंशः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
यो वै भूमा तत्सुखं नाल्पे सुखमस्ति भूमैव सुखं भूमा त्वेव विजिज्ञासितव्य इति भूमानं भगवो विजिज्ञास इति ॥ १ ॥
यो वै भूमा महत् निरतिशयं बह्विति पर्यायाः, तत्सुखम् । ततोऽर्वाक्सातिशयत्वादल्पम् । अतस्तस्मिन्नल्पे सुखं नास्ति, अल्पस्याधिकतृष्णाहेतुत्वात् । तृष्णा च दुःखबीजम् । न हि दुःखबीजं सुखं दृष्टं ज्वरादि लोके । तस्माद्युक्तं नाल्पे सुखमस्तीति । अतो भूमैव सुखम् । तृष्णादिदुःखबीजत्वासम्भवाद्भूम्नः ॥

भूम्नोऽर्वागपि वैषयिकं सुखमस्तीत्याशङ्क्याऽऽह –

ततोऽर्वागिति ।

कथमल्पत्वेऽपि सुखत्वं वार्यते तत्राऽऽह –

अल्पस्येति ।

दुःखरूपां तृष्णां प्रत्यल्पस्य सुखस्य हेतुत्वेऽपि कथं स्वयं सुखं न भवतीत्याशङ्क्याऽऽह –

न हीति ।

अल्पस्य सुखस्य दुःखान्तर्भावे सिद्धे फलितमाह –

अत इति ॥१॥

इति श्रीमदानन्दगिरिटीकायां सप्तमाध्यायस्य त्रयोविंशः खण्डः ॥