छान्दोग्योपनिषद्भाष्यम्
सप्तमोऽध्यायःचतुर्विंशः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
यत्र नान्यत्पश्यति नान्यच्छृणोति नान्यद्विजानाति स भूमाथ यत्रान्यत्पश्यत्यन्यच्छृणोत्यन्यद्विजानाति तदल्पं यो वै भूमा तदमृतमथ यदल्पं तन्मर्त्यꣳ स भगवः कस्मिन्प्रतिष्ठित इति स्वे महिम्नि यदि वा न महिम्नीति ॥ १ ॥
किंलक्षणोऽसौ भूमेति, आह — यत्र यस्मिन्भूम्नि तत्त्वे न अन्यद्द्रष्टव्यमन्येन करणेन द्रष्टा अन्यो विभक्तो दृश्यात्पश्यति । तथा नान्यच्छृणोति । नामरूपयोरेवान्तर्भावाद्विषयभेदस्य तद्ग्राहकयोरेवेह दर्शनश्रवणयोर्ग्रहणम् अन्येषां च उपलक्षणार्थत्वेन । मननं तु अत्रोक्तं द्रष्टव्यं नान्यन्मनुत इति, प्रायशो मननपूर्वकत्वाद्विज्ञानस्य । तथा नान्यद्विजानाति । एवंलक्षणो यः स भूमा । किमत्र प्रसिद्धान्यदर्शनाभावो भूम्न्युच्यते नान्यत्पश्यतीत्यादिना, अथ अन्यन्न पश्यति, आत्मानं पश्यतीत्येतत् । किञ्चातः ? यद्यन्यदर्शनाद्यभावमात्रमित्युच्यते, तदा द्वैतसंव्यवहारविलक्षणो भूमेत्युक्तं भवति । अथ अन्यदर्शनविशेषप्रतिषेधेन आत्मानं पश्यतीत्युच्यते, तदैकस्मिन्नेव क्रियाकारकफलभेदोऽभ्युपगतो भवेत् । यद्येवं को दोषः स्यात् ? नन्वयमेव दोषः — संसारानिवृत्तिः । क्रियाकारकफलभेदो हि संसार इति आत्मैकत्वे एव क्रियाकारकफलभेदः संसारविलक्षण इति चेत् , न, आत्मनो निर्विशेषैकत्वाभ्युपगमे दर्शनादिक्रियाकारकफलभेदाभ्युपगमस्य शब्दमात्रत्वात् । अन्यदर्शनाद्यभावोक्तिपक्षेऽपि यत्र इति अन्यन्न पश्यति इति च विशेषणे अनर्थके स्यातामिति चेत् — दृश्यते हि लोके यत्र शून्ये गृहेऽन्यन्न पश्यतीत्युक्ते स्तम्भादीनात्मानं च न न पश्यतीति गम्यते ; एवमिहापीति चेत् , न, तत्त्वमसीत्येकत्वोपदेशादधिकरणाधिकर्तव्यभेदानुपपत्तेः । तथा सदेकमेवाद्वितीयं सत्यमिति षष्ठे निर्धारितत्वात् । ‘अदृश्येऽनात्म्ये’ (तै. उ. २ । ७ । १) ‘न सन्दृशे तिष्ठति रूपमस्य’ (तै. ना. १ । ३) ‘विज्ञातारमरे केन विजानीयात्’ (छा. उ. २ । ४ । १४) इत्यादिश्रुतिभ्यः स्वात्मनि दर्शनाद्यनुपपत्तिः । यत्र इति विशेषणमनर्थकं प्राप्तमिति चेत् , न, अविद्याकृतभेदापेक्षत्वात् , यथा सत्यैकत्वाद्वितीयत्वबुद्धिं प्रकृतामपेक्ष्य सदेकमेवाद्वितीयमिति सङ्ख्याद्यनर्हमप्युच्यते, एवं भूम्न्येकस्मिन्नेव यत्र इति विशेषणम् । अविद्यावस्थायामन्यदर्शनानुवादेन च भूम्नस्तदभावत्वलक्षणस्य विवक्षितत्वात् नान्यत्पश्यति इति विशेषणम् । तस्मात्संसारव्यवहारो भूम्नि नास्तीति समुदायार्थः । अथ यत्राविद्याविषये अन्योऽन्येनान्यत्पश्यतीति तदल्पम् अविद्याकालभावीत्यर्थः ; यथा स्वप्नदृश्यं वस्तु प्राक् प्रबोधात्तत्कालभावीति, तद्वत् । तत एव तन्मर्त्यं विनाशि स्वप्नवस्तुवदेव । तद्विपरीतो भूमा यस्तदमृतम् । तच्छब्दः अमृतत्वपरः ; स तर्हि एवंलक्षणो भूमा हे भगवन् कस्मिन्प्रतिष्ठित इति उक्तवन्तं नारदं प्रत्याह सनत्कुमारः — स्वे महिम्नीति स्वे आत्मीये महिम्नि माहात्म्ये विभूतौ प्रतिष्ठितो भूमा । यदि प्रतिष्ठामिच्छसि क्वचित् , यदि वा परमार्थमेव पृच्छसि, न महिम्न्यपि प्रतिष्ठित इति ब्रूमः ; अप्रतिष्ठितः अनाश्रितो भूमा क्वचिदपीत्यर्थः ॥

भूम्नः सविशेषत्वं निर्विशेषत्वं वेति प्रश्नपूर्वकं निर्विशेषत्वं निर्धारयति –

किमित्यादिना ।

नान्यच्छृणोति स भूमेति सम्बन्धः ।

किमिति स्पर्शनादिष्वपि सत्सु दर्शनश्रवणयोरेव निषेध्यत्वेनात्र ग्रहणमित्याशङ्क्याऽऽह –

नामेति ।

अनुक्तानां स्पर्शादीनामुपलक्षणार्थत्वेनात्र द्वयोर्ग्रहणं स्पर्शनाद्यविषयत्वस्यापि भूम्नि भावादित्याह –

अन्येषामिति ।

अत्रेति लक्षणवाक्योक्तिः ।

तत्र हेतुमाह –

प्रायश इति ।

यस्मिन्नधिकरणे तत्त्वविचारणायामन्योऽन्यं न पश्यति न श्रुणोति न मनुते न विजानाति स भूमेति द्रष्टृदृश्यादिविकल्पनिषेधेनाध्यासाधिकरणत्वोपलक्षितस्य विकल्पाविषयत्वमेव भूमलक्षणमित्युपसंहरति –

एवमिति ।

उक्तमेव लक्षणं स्फुटयितुं विमृशति –

किमत्रेति ।

लोकप्रसिद्धदर्शनादिविषयत्वाभावमात्रं भूम्नो लक्षणं तन्निषेधेन स्वज्ञेयत्वं वेति विमर्शार्थः ।

कस्मिन्पक्षे को लाभः को वा दोष इति शिष्यः पृच्छति –

किंचात इति ।

आद्यमनूद्य तत्र लाभं दर्शयति –

यदीति ।

अन्यस्य प्रसिद्धस्य दर्शनादेर्विषयत्वं भूम्नि नास्तीत्येतावन्मात्रं तस्य लक्षणमित्युच्यते चेत्सर्वविकल्पातीतः प्रत्यगात्मा भूमेत्यस्मत्पक्षसिद्धिरित्यर्थः ।

द्वितीयं पक्षमनूद्य तस्मिन्दोषं सूचयति –

अथेत्यादिना ।

तमेव दोषं प्रश्नपूर्वकं स्फुटयति –

यद्येवमित्यादिना ।

सति क्रियाकारकफलभेदे कथं संसारनिवृत्तिस्तत्राऽऽह –

क्रियेति ।

सति भेदे क्रियादेः संसारत्वं लोके दृष्टं तद्वैलक्षण्यादेकस्मिन्नेव क्रियाकारकभावस्य न संसारतेति चोदयति –

आत्मैकत्व इति ।

एकस्मिन्क्रियादिभेदस्यासंभवं दर्शयन्नुत्तरमाह –

नाऽऽत्मन इति ।

द्वितीयपक्षस्य दुष्टत्वे स्पष्टीकृते प्रथमपक्षस्यापि समानं दुष्टत्वमिति शिष्यः शङ्कते –

अन्येति ।

आद्यपक्षेऽपि न पश्यतीत्येतावतैव दर्शनाद्यभावलाभाद्यत्रेत्यन्यदिति च विशेषणे व्यर्थे स्यातामित्यर्थः ।

व्यर्थमेवेदृशं वचनमित्याशङ्क्य शिष्यः स्वयमेव ब्रूते –

दृश्यते हीति ।

लोके हि यत्र शून्ये गृहे नान्यत्पश्यति तद्देवदत्तीयमिति प्रयोगो दृश्यते न च तस्य नैरर्थक्यमिष्टं व्यवहाराङ्गत्वात् । यथा च तस्मिन्यथोक्ते धनधान्याद्यदर्शनेऽपि स्तम्भादीन्गृहं च न न पश्यतीति श्रुतस्य नैरर्थक्यं न गम्यते । किं तु तत्र स्तम्भादीनां तस्य च दर्शनमिष्टं तथा यत्र नान्यत्पश्यतीत्यत्रापि विशेषणवैयर्थ्ये समाधानं वक्तव्यमित्यर्थः ।

किं विशेषणार्थवत्त्वानुपपत्त्या भूम्न्यधिकरणाधिकर्तव्यभावः स्वात्मदर्शनं च वाच्यमित्युच्यते किं वा श्रुतस्य गतिर्वक्तव्येति पृच्छ्यते तत्राऽऽद्यं दूषयति –

नेत्यादिना ।

तथा तत्त्वमसीतिवदित्यर्थः । निर्धारितत्वादधिकरणाधिकर्तव्यभेदानुपपत्तिरिति शेषः ।

यच्चान्यत्र पश्यतीति विशेषणादात्मनः स्वदर्शनं वाच्यमिति तत्राऽऽह –

अदृश्य इति ।

द्वितीयमनूद्य गतिमाह –

यत्रेत्यादिना ।

परिहारभागं दृष्टान्तेन स्पष्टयति –

यथेति ।

एकस्मिन्नेव भूम्नि यत्रेति विशेषणमनर्हमपि प्रयुज्यते प्रसिद्धानुवादेनाधिकरणादिविकल्पाविषयत्वलक्षणस्य भूम्नो लक्षणस्य विवक्षितत्वादित्याह –

एवमिति ।

यदविद्यावस्थमन्यदर्शनादि तदनुवादेन नान्यत्पश्यतीति विशेषणं च भूम्नि विरुध्यते दर्शनाद्यविषयत्वलक्षणस्य भूम्नो लक्षणस्य विवक्षितत्वादित्याह –

अविद्येति ।

लक्षणवाक्यार्थमुपसंहरति –

तस्मादिति ।

दर्शनादिसकलसांसारिकव्यवहाराभावोपलक्षितं तत्त्वं भूमेत्यर्थः ।

अथ यत्रेत्यादिवाक्यं व्याकरोति –

अथेति ।

परिच्छिन्नस्याविद्याकालभावित्वं दृष्टान्तेन विवृणोति –

यथेति ।

तत एव परिच्छिन्नत्वादिति यावत् ।

कथं तदमृतमिति भूम्नि तच्छब्दप्रयोगस्तत्राऽऽह –

तच्छब्द इति ।

भूम्नः सुखत्ववचनात्तस्य चाऽऽश्रयं पृच्छति –

स तर्हीति ।

व्यवहारदृष्ट्या प्रश्नो वस्तुदृष्ट्या वेति विकल्प्याऽऽद्यं प्रत्याह –

इत्युक्तवन्तमिति ।

द्वितीयमनूद्य निराकरोति –

यदीति ॥१॥