छान्दोग्योपनिषद्भाष्यम्
सप्तमोऽध्यायःचतुर्विंशः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
गोअश्वमिह महिमेत्याचक्षते हस्तिहिरण्यं दासभार्यं क्षेत्राण्यायतनानीति नाहमेवं ब्रवीमि ब्रवीमीति होवाचान्यो ह्यन्यस्मिन्प्रतिष्ठित इति ॥ २ ॥
यदि स्वमहिम्नि प्रतिष्ठितः भूमा, कथं तर्ह्यप्रतिष्ठ उच्यते ? शृणु— गोअश्वादीह महीमेत्याचक्षते । गावश्चाश्वाश्च गोअश्वं द्वन्द्वैकवद्भावः । सर्वत्र गवाश्वादि महिमेति प्रसिद्धम् । तदाश्रितः तत्प्रतिष्ठश्चैत्रो भवति यथा, नाहमेवं स्वतोऽन्यं महिमानमाश्रितो भूमा चैत्रवदिति ब्रवीमि, अत्र हेतुत्वेन अन्यो ह्यन्यस्मिन्प्रतिष्ठित इति व्यवहितेन सम्बन्धः । किन्त्वेवं ब्रवीमीति ह उवाच — स एवेत्यादि ॥

पूर्वापरविरोधमाशङ्क्य परिहरति –

यदीत्यादिना ।

भूम्नः स्वतोऽन्यस्मिन्प्रतिष्ठितत्वाभावोऽत्रेत्युच्यते तत्रान्यो हीत्यादिवाक्यस्य हेतुत्वेन हेतुना तेन व्यवहितेन नाहमेवं ब्रवीमीत्यस्य सम्बन्ध इति योजना ।

कथं तर्हि ब्रवीति भवानित्याशङ्क्याऽऽह –

किंत्विति ॥२॥

इति श्रीमदानन्दगिरिटीकायां सप्तमाध्यायस्य चतुर्विंशः खण्डः ॥