छान्दोग्योपनिषद्भाष्यम्
सप्तमोऽध्यायःपञ्चविंशः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
स एवाधस्तात्स उपरिष्टात्स पश्चात्स पुरस्तात्स दक्षिणतः स उत्तरतः स एवेदꣳ सर्वमित्यथातोऽहङ्कारादेश एवाहमेवाधस्तादहमुपरिष्टादहं पश्चादहं पुरस्तादहं दक्षिणतोऽहमुत्तरतोऽहमेवेदꣳ सर्वमिति ॥ १ ॥
कस्मात्पुनः क्वचिन्न प्रतिष्ठित इति, उच्यते — यस्मात्स एव भूमा अधस्तात् न तद्व्यतिरेकेणान्यद्विद्यते यस्मिन्प्रतिष्ठितः स्यात् । तथोपरिष्टादित्यादि समानम् । सति भूम्नोऽन्यस्मिन् , भूमा हि प्रतिष्ठितः स्यात् ; न तु तदस्ति । स एव तु सर्वम् । अतस्तस्मादसौ न क्वचित्प्रतिष्ठितः । ‘यत्र नान्यत्पश्यति’ इत्यधिकरणाधिकर्तव्यतानिर्देशात् स एवाधस्तादिति च परोक्षनिर्देशात् द्रष्टुर्जीवादन्यो भूमा स्यादित्याशङ्का कस्यचिन्मा भूदिति अथातः अनन्तरम् अहङ्कारादेशः अहङ्कारेण आदिश्यत इत्यहङ्कारादेशः । द्रष्टुरनन्यत्वदर्शनार्थं भूमैव निर्दिश्यते अहङ्कारेण अहमेवाधस्तादित्यादिना ॥

अवतारितमेव वाक्यं प्रश्नपूर्वकमवतार्य व्याचष्टे –

कस्मादित्यादिना ।

उक्तमेवार्थं व्यतिरेकद्वारा विवृणोति –

सतीति ।

अहंकारात्मत्वोपदेशस्याभिप्रायमाह –

यत्रेति ।

कोऽसावहंकारेणाऽऽदिश्यत इत्याशङ्क्य प्रयोजनानुवादपूर्वकमाह –

द्रष्टुरिति ॥१॥