न केवलं ब्राह्मणोक्तमिह विद्याफलं किं तु मन्त्रोक्तं चेत्याह –
किंचेति ।
तच्छब्दार्थः सप्तम्या निर्दिश्यते । स च विद्याफलरूपः ।
न पश्य इति मन्त्रमादाय व्याचष्टे –
पश्यतीत्यादिना ।
सर्वमाप्नोतीति पूर्णता परिच्छेदभ्रमव्यावर्तनेन विवक्षिता न तु क्रिमिकीटकादिभावोऽपुरुषार्थत्वप्रसङ्गादिति द्रष्टव्यम् ।
विद्यास्तुतिपौष्कल्यार्थं सगुणविद्याफलमपि निर्गुणब्रह्मविदाप्नोतीत्याह –
किंचेति ।
त्रिधा तेजोऽबन्नरूपेण । शब्दस्पर्शादिरादिशब्दार्थः ।
विद्यां तत्फलं तदपेक्षितां स्तुतिं चाभिधायाऽऽहारशुद्धावित्यादेस्तात्पर्यमाह –
अथेति ।
“रागद्वेषवियुक्तैस्तु विषयानिन्द्रियैश्चरन्” (भ.गी. २ । ६४) इत्यादिस्मृतिमाश्रित्याऽऽहारशब्दं व्याकरोति –
आह्रियत इतीति ।
कथं तस्याऽऽह्रियमाणत्वं तत्राऽऽह –
भोक्तृरिति ।
कीदशी तस्य शुद्धिरित्याशङ्क्याऽऽह –
रागेति ।
आहारशुद्धिफलमाह –
तस्यामिति ।
अन्तःकरणशुद्धिफलं कथयति –
सत्त्वेति ।
स्मृतिलाभफलं दर्शयति –
तस्यां चेति ।
भवतीत्याहारशुद्धिरपेक्षितेति शेषः ।
प्रकृतवाक्यतात्पर्यमुपसंहरति –
यत इति ।
तस्मै मृदितकषायायेत्यादिवाक्यमवतार्य व्याचष्टे –
सर्वमिति ।
आगतिं गतिमायव्ययौ ।
तस्य वैशिष्ट्यान्तरमाह –
तमेवेति ॥२॥