छान्दोग्योपनिषद्भाष्यम्
सप्तमोऽध्यायःषड्विंशः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
तदेष श्लोको न पश्यो मृत्युं पश्यति न रोगं नोत दुःखताꣳ सर्वꣳ ह पश्यः पश्यति सर्वमाप्नोति सर्वश इति स एकधा भवति त्रिधा भवति पञ्चधा सप्तधा नवधा चैव पुनश्चैकादशः स्मृतः शतं च दश चैकश्च सहस्राणि च विꣳशतिराहारशुद्धौ सत्त्वशुद्धिः सत्त्वशुद्धौ ध्रुवा स्मृतिः स्मृतिलम्भे सर्वग्रन्थीनां विप्रमोक्षस्तस्मै मृदितकषायाय तमसस्पारं दर्शयति भगवान्सनात्कुमारस्तꣳ स्कन्द इत्याचक्षते तꣳ स्कन्द इत्याचक्षते ॥ २ ॥
किञ्च तत् एतस्मिन्नर्थे एष श्लोकः मन्त्रोऽपि भवति — न पश्यः पश्यतीति पश्यः यथोक्तदर्शी विद्वानित्यर्थः, मृत्युं मरणं रोगं ज्वरादि दुःखतां दुःखभावं चापि न पश्यति । सर्वं ह सर्वमेव स पश्यः पश्यति आत्मानमेव । सर्वं ततः सर्वमाप्नोति सर्वशः सर्वप्रकारैरिति । किञ्च स विद्वान् प्राक्सृष्टिप्रभेदात् एकधैव भवति ; एकधैव च सन् त्रिधादिभेदैरनन्तभेदप्रकारो भवति सृष्टिकाले ; पुनः संहारकाले मूलमेव स्वं पारमार्थिकम् एकधाभावं प्रतिपद्यते स्वतन्‍त्र एव — इति विद्यां फलेन प्ररोचयन् स्तौति । अथेदानीं यथोक्ताया विद्यायाः सम्यगवभासकारणं मुखावभासकारणस्येव आदर्शस्य विशुद्धिकारणं साधनमुपदिश्यते — आहारशुद्धौ । आह्रियत इत्याहारः शब्दादिविषयविज्ञानं भोक्तुर्भोगाय आह्रियते । तस्य विषयोपलब्धिलक्षणस्य विज्ञानस्य शुद्धिः आहारशुद्धिः, रागद्वेषमोहदोषैरसंसृष्टं विषयविज्ञानमित्यर्थः । तस्यामाहारशुद्धौ सत्यां तद्वतोऽन्तःकरणस्य सत्त्वस्य शुद्धिः नैर्मल्यं भवति । सत्त्वशुद्धौ च सत्यां यथावगते भूमात्मनि ध्रुवा अविच्छिन्ना स्मृतिः अविस्मरणं भवति । तस्यां च लब्धायां स्मृतिलम्भे सति सर्वेषामविद्याकृतानर्थपाशरूपाणाम् अनेकजन्मान्तरानुभवभावनाकठिनीकृतानां हृदयाश्रयाणां ग्रन्थीनां विप्रमोक्षः विशेषेण प्रमोक्षणं विनाशो भवतीति । यत एतदुत्तरोत्तरं यथोक्तमाहारशुद्धिमूलं तस्मात्सा कार्येत्यर्थः । सर्वं शास्त्रार्थमशेषत उक्त्वा आख्यायिकामुपसंहरति श्रुतिः — तस्मै मृदितकषायाय वार्क्षादिरिव कषायो रागद्वेषादिदोषः सत्त्वस्य रञ्चनारूपत्वात् सः ज्ञानवैराग्याभ्यासरूपक्षारेण क्षालितः मृदितः विनाशितः यस्य नारदस्य, तस्मै योग्याय मृदितकषायाय तमसः अविद्यालक्षणात् पारं परमार्थतत्त्वं दर्शयति दर्शितवानित्यर्थः । कोऽसौ ? भगवान् ‘उत्पत्तिं प्रलयं चैव भूतानामागतिं गतिम् । वेत्ति विद्यामविद्यां च स वाच्यो भगवानिति’ एवंधर्मा सनत्कुमारः । तमेव सनत्कुमारं देवं स्कन्द इति आचक्षते कथयन्ति तद्विदः । द्विर्वचनमध्यायपरिसमाप्त्यर्थम् ॥

न केवलं ब्राह्मणोक्तमिह विद्याफलं किं तु मन्त्रोक्तं चेत्याह –

किंचेति ।

तच्छब्दार्थः सप्तम्या निर्दिश्यते । स च विद्याफलरूपः ।

न पश्य इति मन्त्रमादाय व्याचष्टे –

पश्यतीत्यादिना ।

सर्वमाप्नोतीति पूर्णता परिच्छेदभ्रमव्यावर्तनेन विवक्षिता न तु क्रिमिकीटकादिभावोऽपुरुषार्थत्वप्रसङ्गादिति द्रष्टव्यम् ।

विद्यास्तुतिपौष्कल्यार्थं सगुणविद्याफलमपि निर्गुणब्रह्मविदाप्नोतीत्याह –

किंचेति ।

त्रिधा तेजोऽबन्नरूपेण । शब्दस्पर्शादिरादिशब्दार्थः ।

विद्यां तत्फलं तदपेक्षितां स्तुतिं चाभिधायाऽऽहारशुद्धावित्यादेस्तात्पर्यमाह –

अथेति ।

“रागद्वेषवियुक्तैस्तु विषयानिन्द्रियैश्चरन्” (भ.गी. २ । ६४) इत्यादिस्मृतिमाश्रित्याऽऽहारशब्दं व्याकरोति –

आह्रियत इतीति ।

कथं तस्याऽऽह्रियमाणत्वं तत्राऽऽह –

भोक्तृरिति ।

कीदशी तस्य शुद्धिरित्याशङ्क्याऽऽह –

रागेति ।

आहारशुद्धिफलमाह –

तस्यामिति ।

अन्तःकरणशुद्धिफलं कथयति –

सत्त्वेति ।

स्मृतिलाभफलं दर्शयति –

तस्यां चेति ।

भवतीत्याहारशुद्धिरपेक्षितेति शेषः ।

प्रकृतवाक्यतात्पर्यमुपसंहरति –

यत इति ।

तस्मै मृदितकषायायेत्यादिवाक्यमवतार्य व्याचष्टे –

सर्वमिति ।

आगतिं गतिमायव्ययौ ।

तस्य वैशिष्ट्यान्तरमाह –

तमेवेति ॥२॥

इति श्रीमदानन्दगिरिटीकायां सप्तमाध्यायस्य षड्विंशः खण्डः ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीशुद्धानन्दपूज्यपादशिष्यभगवदानन्दज्ञानकृतायां श्रीशङ्करभगवत्कृतच्छन्दोग्योपनिषद्भाष्यटीकायां सप्तमोऽध्यायः समाप्तः ॥