छान्दोग्योपनिषद्भाष्यम्
अष्टमोऽध्यायःप्रथमः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
यावान्वा अयमाकाशस्तावानेषोऽन्तर्हृदय आकाश उभे अस्मिन्द्यावापृथिवी अन्तरेव समाहिते उभावग्निश्च वायुश्च सूर्याचन्द्रमसावुभौ विद्युन्नक्षत्राणि यच्चास्येहास्ति यच्च नास्ति सर्वं तदस्मिन्समाहितमिति ॥ ३ ॥
शृणुत — तत्र यद्ब्रूथ पुण्डरीकान्तःस्थस्य खस्याल्पत्वात् तत्स्थमल्पतरं स्यादिति, तदसत् । न हि खं पुण्डरीकवेश्मगतं पुण्डरीकादल्पतरं मत्वा अवोचं दहरोऽस्मिन्नन्तराकाश इति । किं तर्हि, पुण्डरीकमल्पं तदनुविधायि तत्स्थमन्तःकरणं पुण्डरीकाकाशपरिच्छिन्नं तस्मिन्विशुद्धे संहृतकरणानां योगिनां स्वच्छ इवोदके प्रतिबिम्बरूपमादर्श इव च शुद्धे स्वच्छं विज्ञानज्योतिःस्वरूपावभासं तावन्मात्रं ब्रह्मोपलभ्यत इति दहरोऽस्मिन्नन्तराकाश इत्यवोचाम अन्तःकरणोपाधिनिमित्तम् । स्वतस्तु यावान्वै प्रसिद्धः परिमाणतोऽयमाकाशः भौतिकः, तावानेषोऽन्तर्हृदये आकाशः यस्मिन्नन्वेष्टव्यं विजिज्ञासितव्यं च अवोचाम । नाप्याकाशतुल्यपरिमाणत्वमभिप्रेत्य तावानित्युच्यते । किं तर्हि, ब्रह्मणोऽनुरूपस्य दृष्टान्तान्तरस्याभावात् । कथं पुनर्न आकाशसममेव ब्रह्मेत्यवगम्यते, ‘येनावृतं खं च दिवं महीं च’ (तै. ना. १), ‘तस्माद्वा एतस्मादात्मन आकाशः सम्भूतः’ (तै. उ. २ । १ । १), ‘एतस्मिन्नु खल्वक्षरे गार्ग्याकाशः’ (बृ. उ. ३ । ८ । ११) इत्यादिश्रुतिभ्यः । किं च उभे अस्मिन्द्यावापृथिवी ब्रह्माकाशे बुद्ध्युपाधिविशिष्टे अन्तरेव समाहिते सम्यगाहिते स्थिते । ‘यथा वा अरा नाभौ’ (छा. उ. ७ । १५ । १) इत्युक्तं हि ; तथा उभावग्निश्च वायुश्चेत्यादि समानम् । यच्च अस्य आत्मन आत्मीयत्वेन देहवतोऽस्ति विद्यते इह लोके । तथा यच्च आत्मीयत्वेन न विद्यते । नष्टं भविष्यच्च नास्तीत्युच्यते । न तु अत्यन्तमेवासत् , तस्य हृद्याकाशे समाधानानुपपत्तेः ॥

किमाचार्यो ब्रूयादित्यपेक्षायां वक्ष्यमाणेऽर्थे शिष्याणां मनःसमाधानमादौ प्रार्थयत इत्याह –

श्रुणुतेति ।

श्रोतव्यमेव दर्शयितुं शिष्यैरुक्तमनुवदति –

तत्रेति ।

किमाकाशस्य स्वाभाविकं दहरत्वमुपेत्य चाद्यते किं वा परोपाधिनिमित्तमिति विकल्प्याऽऽद्यं दूषयति –

तदसदिति ।

ततश्च तस्य स्वाभाविकं दहरत्वमाश्रित्य चोद्यं निरवकाशमिति शेषः ।

कथं तर्हि दहरत्वोक्तिराकाशस्येत्याशङ्क्याऽऽह –

किं तर्हीति ।

तस्मिन्विशुद्धे तावन्मात्रं ब्रह्म यथोक्तविशेषणं योगिनां विषयेभ्यो विमुखीकृतान्तःकरणानामुपलभ्यत इति सम्बन्धः ।

अन्तःकरणस्य शुद्धत्वे दृष्टान्तमाह –

स्वच्छ इवेति ।

ब्रह्मणस्तस्मिन्नुपलभ्यमानत्वे प्रतिबिम्बरूपमिवेत्युदाहरणम् । प्रतिपत्तिसौकर्यार्थमुदाहरणान्तरम् ।

ब्रह्मणो नैसर्गिकमागन्तुकं च व्यवधानं नास्तीत्युपलब्धिसिद्ध्यर्थं विशिनष्टि –

स्वच्छमिति ।

तादृगेव दहरत्वमादाय चोद्यते चेदनौपाधिकं महत्त्वमुपेत्य समाधिः सम्भवतीति कल्पान्तरं निरस्यति –

स्वतस्त्विति ।

यस्मिन्नन्वेष्टव्यमाश्रयेण सहेति शेषः ।

यावांस्तावानिति वचनादाकाशेन तुल्यपरिमाणत्वं ब्रह्मणोऽभिप्रेतं तथाच ज्यायानाकाशादित्यादि विरुद्धमित्याशङ्क्याऽऽह –

नापीति ।

केनाभिप्रायेण तर्हि तावानित्युक्तमत आह –

किं तर्हीति ।

“न तस्य प्रतिमाऽस्ति” (श्वे.उ. ४ । १९) इत्याकाशादि येन व्याप्तं लोकोऽनुभवति तस्मिन्नक्षरे सर्वमृगादि समाहितमित्यर्थः ।

कार्यकारणयोरतुल्यपरिमाणत्वप्रसिद्धेश्च नाऽऽकाशसमता ब्रह्मणोऽस्तीत्याह –

तस्मादिति ।

आधाराधेययोस्तुल्यपरिमाणत्वाच्चैवमित्याह –

एतस्मिन्निति ।

इतश्चाऽऽकाशस्य न स्वाभाविकं दहरत्वमित्याह –

किंचेति ।

कार्यं हि द्यावापृथिव्यादि कारणे समाहितं तच्च हृदये ध्येयमित्यभिप्रेत्य बुद्ध्युपाधिविशिष्ट इत्युक्तम् ।

आकाशे द्यावापृथिव्यादिः समाहितत्वे भूमविद्यासंवादं दर्शयति –

यथा वेति ।

न विद्यते सर्वं तदास्मिन्समाहितमिति सम्बन्धः ।

नास्तिशब्दस्यात्यन्तासद्विषयत्वं व्यावर्तयति –

नष्टमिति ॥३॥