छान्दोग्योपनिषद्भाष्यम्
अष्टमोऽध्यायःप्रथमः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
तं चेद्ब्रूयुरस्मिꣳश्चेदिदं ब्रह्मपुरे सर्वꣳ समाहितꣳ सर्वाणि च भूतानि सर्वे च कामा यदैतज्जरा वाप्नोति प्रध्वंसते वा किं ततोऽतिशिष्यत इति ॥ ४ ॥
तं चेत् एवमुक्तवन्तं ब्रूयुः पुनरन्तेवासिनः — अस्मिंश्चेत् यथोक्ते चेत् यदि ब्रह्मपुरे ब्रह्मपुरोपलक्षितान्तराकाशे इत्यर्थः । इदं सर्वं समाहितं सर्वाणि च भूतानि सर्वे च कामाः । कथमाचार्येणानुक्ताः कामा अन्तेवासिभिरुच्यन्ते ? नैष दोषः । यच्च अस्य इहास्ति यच्च नास्तीत्युक्ता एव हि आचार्येण कामाः । अपि च सर्वशब्देन च उक्ता एव कामाः । यदा यस्मिन्काले एतच्छरीरं ब्रह्मपुराख्यं जरा वलीपलितादिलक्षणा वयोहानिर्वा आप्नोति, शस्त्रादिना वा वृक्णं प्रध्वंसते विस्रंसते विनश्यति, किं ततोऽन्यदतिशिष्यते ? घटाश्रितक्षीरदधिस्नेहादिवत् घटनाशे देहनाशेऽपि देहाश्रयमुत्तरोत्तरं पूर्वपूर्वनाशान्नश्यतीत्यभिप्रायः । एवं प्राप्ते नाशे किं ततोऽन्यत् यथोक्तादतिशिष्यते अवतिष्ठते, न किञ्चनावतिष्ठत इत्यभिप्रायः ॥

आश्रयनाशादाश्रितनाशः स्यादिति न्यायमाश्रित्य शङ्कते –

तं चेदिति ।

यद्यस्मिन्सर्वं समाहितं ततो देहनाशे किमवशिष्यत इति सम्बन्धः ।

शिष्याणामधिकावापं दोषमाशङ्कते –

कथमिति ।

शङ्कितं दोषं परिहरति –

नैष दोष इति ।

सर्वं तदस्मिन्समाहितमित्यत्रोक्तेन सर्वशब्देनेति शेषः ।

शिष्याणामधिकावापं दोषं परिहृत्य प्रकृतं चोद्यं विवणोति –

यदेत्यादिना ।

आकाशस्य शिष्यमाणत्वमाशङ्क्याऽऽह –

घटेति ।

ततो यथोक्तान्नाशादिति सम्बन्धः ॥४॥