छान्दोग्योपनिषद्भाष्यम्
अष्टमोऽध्यायःप्रथमः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
स ब्रूयान्नास्य जरयैतज्जीर्यति न वधेनास्य हन्यत एतत्सत्यं ब्रह्मपुरमस्मिन्कामाः समाहिता एष आत्मापहतपाप्मा विजरो विमृत्युर्विशोको विजिघत्सोऽपिपासः सत्यकामः सत्यसङ्कल्पो यथा ह्येवेह प्रजा अन्वाविशन्ति यथानुशासनं यं यमन्तमभिकामा भवन्ति यं जनपदं यं क्षेत्रभागं तं तमेवोपजीवन्ति ॥ ५ ॥
एवमन्तेवासिभिश्चोदितः स आचार्यो ब्रूयात् तन्मतिमपनयन् । कथम् ? अस्य देहस्य जरया एतत् यथोक्तमन्तराकाशाख्यं ब्रह्म यस्मिन्सर्वं समाहितं न जीर्यति देहवन्न विक्रियत इत्यर्थः । न च अस्य वधेन शस्त्रादिघातेन एतद्धन्यते, यथा आकाशम् ; किमु ततोऽपि सूक्ष्मतरमशब्दमस्पर्शं ब्रह्म देहेन्द्रियादिदोषैर्न स्पृश्यत इत्यर्थः । कथं देहेन्द्रियादिदोषैर्न स्पृश्यत इति एतस्मिन्नवसरे वक्तव्यं प्राप्तम् , तत्प्रकृतव्यासङ्गो मा भूदिति नोच्यते । इन्द्रविरोचनाख्यायिकायामुपरिष्टाद्वक्ष्यामो युक्तितः । एतत्सत्यमवितथं ब्रह्मपुरं ब्रह्मैव पुरं ब्रह्मपुरम् ; शरीराख्यं तु ब्रह्मपुरं ब्रह्मोपलक्षणार्थत्वात् । तत्तु अनृतमेव, ‘वाचारम्भणं विकारो नामधेयम्’ (छा. उ. ६ । १ । ४), (छा. उ. ६ । १ । ५), (छा. उ. ६ । १ । ६) इति श्रुतेः । तद्विकारो अनृतेऽपि देहशुङ्गे ब्रह्मोपलभ्यत इति ब्रह्मपुरमित्युक्तं व्यावहारिकम् । सत्यं तु ब्रह्मपुरमेतदेव ब्रह्म, सर्वव्यवहारास्पदत्वात् । अतः अस्मिन्पुण्डरीकोपलक्षिते ब्रह्मपुरे सर्वे कामाः, ये बहिर्भवद्भिः प्रार्थ्यन्ते, ते अस्मिन्नेव स्वात्मनि समाहिताः । अतः तत्प्राप्त्युपायमेवानुतिष्ठत, बाह्यविषयतृष्णां त्यजत इत्यभिप्रायः । एष आत्मा भवतां स्वरूपम् । शृणुत तस्य लक्षणम् — अपहतपाप्मा, अपहतः पाप्मा धर्माधर्माख्यो यस्य सोऽयमपहतपाप्मा । तथा विजरः विगतजरः विमृत्युश्च । तदुक्तं पूर्वमेव न वधेनास्य हन्यत इति ; किमर्थं पुनरुच्यते ? यद्यपि देहसम्बन्धिभ्यां जरामृत्युभ्यां न सम्बन्ध्यते, अन्यथापि सम्बन्धस्ताभ्यां स्यादित्याशङ्कानिवृत्त्यर्थम् । विशोकः विगतशोकः । शोको नाम इष्टादिवियोगनिमित्तो मानसः सन्तापः । विजिघत्सः विगताशनेच्छः । अपिपासः अपानेच्छः । ननु अपहतपाप्मत्वेन जरादयः शोकान्ताः प्रतिषिद्धा एव भवन्ति, कारणप्रतिषेधात् । धर्माधर्मकार्या हि ते इति । जरादिप्रतिषेधेन वा धर्माधर्मयोः कार्याभावे विद्यमानयोरप्यसत्समत्वमिति पृथक्प्रतिषेधोऽनर्थकः स्यात् । सत्यमेवम् , तथापि धर्मकार्यानन्दव्यतिरेकेण स्वाभाविकानन्दो यथेश्वरे, ‘विज्ञानमानन्दं ब्रह्म’ (बृ. उ. ३ । ९ । २८) इति श्रुतेः, तथा अधर्मकार्यजरादिव्यतिरेकेणापि जरादिदुःखस्वरूपं स्वाभाविकं स्यादित्याशङ्क्येत । अतः युक्तस्तन्निवृत्तये जरादीनां धर्माधर्माभ्यां पृथक्प्रतिषेधः । जरादिग्रहणं सर्वदुःखोपलक्षणार्थम् । पापनिमित्तानां तु दुःखानामानन्त्यात्प्रत्येकं च तत्प्रतिषेधस्य अशक्यत्वात् सर्वदुःखप्रतिषेधार्थं युक्तमेवापहतपाप्मत्ववचनम् । सत्याः अवितथाः कामाः यस्य सोऽयं सत्यकामः । वितथा हि संसारिणां कामाः ; ईश्वरस्य तद्विपरीताः । तथा कामहेतवः सङ्कल्पा अपि सत्याः यस्य स सत्यसङ्कल्पः । सङ्कल्पाः कामाश्च शुद्धसत्त्वोपाधिनिमित्ताः ईश्वरस्य, चित्रगुवत् ; न स्वतः ‘नेति नेति’ (बृ. उ. २ । ३ । ६) इत्युक्तत्वात् । यथोक्तलक्षण एष आत्मा विज्ञेयो गुरुभ्यः शास्त्रतश्च आत्मसंवेद्यतया च स्वाराज्यकामैः । न चेद्विज्ञायते को दोषः स्यादिति, शृणुत अत्र दोषं दृष्टान्तेन — यथा ह्येव इह लोके प्रजाः अन्वाविशन्ति अनुवर्तन्ते यथानुशासनम् ; यथेह प्रजाः अन्यं स्वामिनं मन्यमानाः तस्य स्वामिनो यथा यथानुशासनं तथा तथान्वाविशन्ति । किम् ? यं यमन्तं प्रत्यन्तं जनपदं क्षेत्रभागं च अभिकामाः अर्थिन्यः भवन्ति आत्मबुद्ध्यनुरूपम् , तं तमेव च प्रत्यन्तादिम् उपजीवन्तीति । एष दृष्टान्तः अस्वातन्त्र्यदोषं प्रति पुण्यफलोपभोगे ॥

कया पुना रीत्या शून्यविषया शिष्यमतिरपनेतव्येति प्रश्नपूर्वकं विवृणोति –

कथमित्यादिना ।

देहादिविक्रियया ब्रह्मणो न विक्रियाऽस्तीत्येतत्कैमुतिकन्यायेन साधयति –

न चेति ।

देहादिषु तादात्म्येन स्थितं चेद्ब्रह्म दोषैरसंस्पृष्टमित्ययुक्तमित्याशङ्क्याऽऽह –

कथमिति ।

प्रकृता दहरोपासना तत्र व्यासङ्गो विक्षेपः ।

यदि देहादिदोषैरसंस्पृष्टत्वं ब्रह्मणो नोच्यते चेदेते न क्वचिदुपपद्यन्ते तर्हि तदविवक्षितमेव स्यादित्याशङ्क्याऽऽह –

इन्द्रेति ।

नास्येत्यादिनोऽक्तेऽर्थे हेतुमाह –

एतदिति ।

कथं यथोक्तं ब्रह्मणः पुरमवितथं स्यादित्याशङ्क्याऽऽह –

ब्रह्मैवेति ।

सत्यशब्दसामानाधिकरण्यादुक्तसमाससिद्धिरित्यर्थः ।

कथं तर्हि शरीरं ब्रह्मपुरमित्युक्तमत आह –

शरीराख्यं त्विति ।

तदेव स्फुटयितुं शरीरस्य मिथ्यात्वं सप्रमाणं दर्शयति –

तत्त्विति ।

अथ मिथ्याभूतस्य तस्य कथं ब्रह्मपुरत्वमत आह –

तद्विकार इति ।

किं च व्यावहारिकं सत्यमिदं शरीरं तद्युक्तं तस्यानृतस्यापि ब्रह्मोपलब्ध्यधिष्ठानस्य ब्रह्मपुरत्वमित्याह –

व्यावहारिकमिति ।

ब्रह्म तु परमार्थसत्यमतश्चैतदेव सत्यमित्युक्तं ब्रह्मपुरमित्याह –

सत्यं त्विति ।

ब्रह्मणः सत्यत्वेऽपि पुरत्वायोगात्कुतो ब्रह्मपुरत्वमित्याशङ्क्याऽऽह –

सर्वव्यवहारेति ।

दहराकाशस्याल्पत्वं विनाशित्वमित्याशङ्कितं दोषं परिहृत्योपास्यत्वसिद्ध्यर्थं पातनिकां करोति –

अत इति ।

अस्मिन्सर्वकामसमाधाने फलितमुपासनमुपदिशति –

अतस्तदिति ।

यथोक्ते दहराकाशे कीदृगुपासनं कर्तव्यमित्यपेक्षायामहंग्रहेणेत्याह –

एष इति ।

पुनरुक्तिं शङ्कते –

तदुक्तमिति ।

तां परिहरति –

यद्यपीति ।

अन्यथा देहसम्बन्धं विना स्वभावतोऽपीत्यर्थः । निवृत्त्यर्थं पुनरुच्यत इति पूर्वेण सम्बन्धः ।

प्रकारान्तरेण पुनरुक्तिं चोदयति –

नन्विति ।

शोकस्यान्ता किंचिद्व्यवधाय पिपासा येष्वस्ति ते शोकान्तास्तेषां जरादीनामपहतपाप्मत्वेन प्रतिषिद्धत्वे हेतुमाह –

कारणेति ।

कथं धर्माधर्मप्रतिषेधे जरादिविकारप्रतिषेधस्तत्राऽऽह –

धर्मेति ।

इति पृथक्प्रतिषेधोऽनर्थकः स्यादिति सम्बन्धः ।

जरादिप्रतिषेधस्यार्थवत्त्वमङ्गीकृत्य पाप्मप्रतिषेधस्य नैरर्थक्यमिति पक्षान्तरमाह –

जरादीति ।

धर्मादेर्जरादेर्वा निषेधादितरनिषेधः सिद्ध्यतीत्यङ्गीकरोति –

सत्यमेवमिति ।

तर्हि किमित्यपहतपाप्मेत्युक्त्वा विजरो विमृत्युरित्याद्युच्यते तत्राऽऽह –

तथाऽपीति ।

तथाऽपि दुःखे प्रतिषिद्धे किमिति जरादि प्रतिषिध्यते तत्राऽऽह –

जरादिति ।

यत्तु कार्याभावे सतोरपि धर्माधर्मयोरुत्खातदन्तोरगवदकिंचित्करत्वादपहतपाप्मेति न पृथग्वक्तव्यमिति तत्राऽऽह –

पापनिमित्तानामिति ।

ईश्वरस्य सत्यकामत्वं साधयति –

वितथा हीति ।

यथेश्वरस्यावितथाः कामास्तथा संकल्पाश्चेत्याह –

तथेति ।

अभावरूपाणां धर्माणामद्वैताव्याघातमकत्वेन सम्भावितत्वेऽपि कथं भावरूपा धर्माः सम्भवेयुरित्याशङ्क्याऽऽह –

संकल्पा इति ।

शुद्धसत्त्वं रजस्तमोभ्यामस्पृष्टं त्रिगुणाया मायाया अंशभूतं तदेवोपाधिस्तन्निमित्तं येषां ते तथा ।

अस्वाभाविकानां संकल्पादीनामीश्वरविशेषणत्वे दृष्टान्तमाह –

चित्रगुवदिति ।

यथा चित्रा गावोऽस्वाभाविकाश्चित्रगोर्देवदत्तस्य विशेषणं तथा ब्रह्मणोऽपि कामादय इत्यर्थः ।

किमिति कामादयो ब्रह्मणि स्वाभाविका न भवन्ति धर्मधर्मिणोरेवोपचारादद्वैतश्रुतेरुपपत्तेरित्याशङ्क्याऽऽह –

न स्वत इति ।

वाक्यान्तरमवतारयितुं पातनिकां करोति –

यथोक्तेति ।

ज्ञानप्रकारं निमित्ताधिकारिप्रदर्शनपूर्वकं दर्शयति –

गुरुभ्य इति ।

प्रश्नपूर्वकं यथा हीत्यादिवाक्यमाह –

न चेदिति ।

यथाकाशात्मापरिज्ञानमत्रेति परामृष्टम् ।

अक्षरोत्यमर्थं ह्येवेत्यनेन दृष्टान्तेन दर्शयित्वा वाक्यार्थं कथयति –

यथा ह्येवेति ।

अमुमर्थं प्रश्नपूर्वकमन्वाचष्टे –

किमित्यादिना ।

उक्तदृष्टान्तेन विवक्षितमंशमनूद्यदृष्टान्तान्तरस्य तात्पर्यमाह –

एष इति ॥५ ॥