छान्दोग्योपनिषद्भाष्यम्
अष्टमोऽध्यायःतृतीयः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
त इमे सत्याः कामा अनृतापिधानास्तेषां सत्यानां सतामनृतमपिधानं यो यो ह्यस्येतः प्रैति न तमिह दर्शनाय लभते ॥ १ ॥
यथोक्तात्मध्यानसाधनानुष्ठानं प्रति साधकानामुत्साहजननार्थमनुक्रोशन्त्याह — कष्टमिदं खलु वर्तते, यत्स्वात्मस्थाः शक्यप्राप्या अपि त इमे सत्याः कामाः अनृतापिधानाः, तेषामात्मस्थानां स्वाश्रयाणामेव सतामनृतं बाह्यविषयेषु स्त्र्यन्नभोजनाच्छादनादिषु तृष्णा तन्निमित्तं च स्वेच्छाप्रचारत्वं मिथ्याज्ञाननिमित्तत्वादनृतमित्युच्यते । तन्निमित्तं सत्यानां कामानामप्राप्तिरिति अपिधानमिवापिधानम् । कथमनृतापिधाननिमित्तं तेषामलाभ इति, उच्यते — यो यो हि यस्मादस्य जन्तोः पुत्रो भ्राता वा इष्टः इतः अस्माल्लोकात् प्रैति प्रगच्छति म्रियते, तमिष्टं पुत्रं भ्रातरं वा स्वहृदयाकाशे विद्यमानमपि इह पुनर्दर्शनायेच्छन्नपि न लभते ॥

त इमे सत्याः कामा इत्यादेस्तात्पर्यमाह –

यथोक्तेति ।

आह समनन्तरा श्रुतिरिति शेषः ।

तमेवानुक्रोशं दर्शयति –

कष्टमिति ।

अनृतमपिधानमिवापिधानं तेषांमिति सम्बन्धः ।

किं तदनृतं तदाह –

बाह्येति ।

कथं तदपिधानमात्मस्थानां कामानामित्याशङ्क्याऽऽह –

तन्निमित्तमिति ।

उक्तमर्थमाकाङ्क्षापूर्वकमुत्तरं वाक्यमवतार्योपपादयति –

कथमित्यादिना ।

तं हृदयाकाशे स्वात्मनि सन्तमपि द्रष्टुमिच्छन्नपि यस्मान्न लभते तस्मादनृतापिधानं निमित्तं कृत्वा तदलाभो भवतीति योजना ॥१॥