इतश्च तेषामलाभे निमित्तमनृतापिधानमेवेत्याह –
अथ पुनरिति ।
यथोक्तेन विधिनेत्युपास्तिप्रकारोक्तिः ।
आत्मस्थानां कामानामनृतापिधानत्वमुक्तं निगमयति –
अत्रेति ।
यस्मादविद्वद्भिरलभ्या विद्वद्भिश्च लभ्याः सत्याः कामाः सर्वाधारे जगन्मूलकारणे ब्रह्मणि स्वात्मभूते वर्तन्ते तस्मात्ते भवन्त्यनृतापिधानाः । सत्यामविद्यायामनुपलम्भाद्विद्यया तत्प्रशमने चोपलम्भादित्यर्थः ।
यदुक्तं ब्रह्मणि स्वात्मनि कामाः सन्तोऽपि नोपलभ्यन्त इत्यन्याय्यमिति तत्र दृष्टान्तं प्रश्नपूर्वकमुत्थाप्य व्याचष्टे –
कथमिवेत्यादिना ।
तत्र स्वायत्तस्याप्यप्राप्तौ दृष्टान्तो निर्दिश्यत इति शेषः ।
दार्ष्टान्तिकं व्याकरोति –
एवमेवेति ।
अलाभप्रकारमभिनयति –
एषोऽहमिति ।
तत्र हेतुमाह –
अनृतेनेति ।
यथोक्तेन मिथ्याज्ञानशब्दितानाद्यनिर्वाच्याज्ञानकृतेन तृष्णाप्रभेदेन तन्निमित्तेनेच्छाप्रचारेणेत्यर्थः । तस्मात्प्रजानां स्वात्मभूतब्रह्मलोकालाभ इति शेषः ।
स्वरूपादनृतेन हृतत्वमेव स्फोरयति –
अविद्यादीति ।
प्रकृतमाक्रोशमुपसंहरति –
अत इति ॥२॥