अनुक्रोशद्वारा यथोक्तब्रह्मध्यानानुष्ठाने प्रयत्नस्य कर्तव्यतोक्ता, सम्प्रति नामादाविव हृदये ब्रह्मदृष्ट्यारोपमात्रमिति शङ्कां वारयितुमनन्तरवाक्यमवतार्य व्याकरोति –
स वा इत्यादिना ।
कथमात्मा यथोक्तो हृदयेऽस्तीति गम्यते तत्राऽऽह –
तस्येति ।
यथोक्तावगतिफलमाह –
अहरहरिति ।
एवंविदिति विशेषणममृष्यमाणः शङ्कते –
नन्विति ।
अनेवंविदोऽपि सुषुप्तिकाले ब्रह्मप्राप्तिमङ्गीकरोति –
बाधमेवमिति ।
तर्हि किमित्येवंविदिति विशेषणमित्याशङ्क्याऽऽह –
तथाऽपीति ।
विद्वदविदुषोर्विशेषमेव दृष्टान्तेन स्पष्टयति –
यथेति ।
त्वं तदसीत्याचार्येण प्रतिबोधितो विद्वान्सदेव भवत्यन्यस्त्वविद्वानस्मीति देहादिकमेव जानन्न सदेव भवतीति योजना । देहपातेऽपीत्यपिशब्देन जीवदवस्था दृष्टान्तिता ॥३॥