वाक्यान्तरमादत्ते –
अथेति ।
तस्य तात्पर्यमाह –
उक्तलक्षण इति ।
प्रकारान्तरेण स्तुतिप्रारम्भार्थो वाक्यस्थोऽथशब्दः ।
किमिति स्तुतिरित्यपेक्षायां स्तुत्ये ब्रह्मण्याधारे ब्रह्मचर्याख्यस्य साधनस्य सम्बन्धविधानार्थमित्याह –
ब्रह्मचर्येति ।
यथा मृदादिमयः सेतुर्व्यवस्थाहेतुरस्येदं क्षेत्रमिति तथाऽयमपि व्यवस्थाहेतुरित्याह –
सेतुरिवेति ।
सेतुत्वं साधयति –
विधृतिरिति ।
विधारकत्वमुपपादयति –
अनेनेति ।
वर्णाश्रमादीत्यादिशब्दो वयोवस्थाविषयः । फलादीत्यादिशब्दस्तु तदवान्तरजातीयविषयः । कर्त्रनुरूपक्रियादिभेदविषयनियमः सह वर्णादिव्यवस्थापयता परमेश्वरेण सर्वं जगद्विधृतमिति सम्बन्धः ।
अन्वयमुखेनोक्तमेव व्यतिरेकमुखेनाऽऽह –
अध्रियमाणं हीति ।
उक्तमेवार्थं प्रश्नपूर्वकं विशदयति –
किमर्थमित्यादिना ।
नैतमिति प्रतीकग्रहणं यत्तद्व्याचष्टे –
सेतुमित्यादिना ।
तदेव वैधर्म्यदृष्टान्तेन स्पष्टयति –
यथेत्यादिना ।
परमात्मनो न कालपरिच्छेद्यतेत्यत्राऽऽथर्वणश्रुतिं प्रमाणयति –
यस्मादिति ।
तरतीति तरतेरतिक्रमणार्थो नाऽऽत्मनि सम्भवतीत्यत्र हेतुमाह –
कारणं हीति ।
कार्यस्य कारणातिक्रमणं माभूत् अहोरात्रादेस्त्वात्मातिक्रमणं किं न स्यादित्याशङ्क्याऽऽह –
अहोरात्रादि चेति ।
तरतेरतिक्रमणार्थत्वमङ्गीकृत्यापि निषेधे हेतुमाह –
अन्येनेति ।
तरतिवाक्यस्यापहतपाप्मादिवाक्येन पौनरुक्त्यमाशङ्क्य परिहरति –
यद्यपीति ।
विशेषणानामानन्त्यात्प्रत्येकं प्रतिषेधवचनासम्भवमभिप्रेत्याऽऽह –
अहोरात्राद्या हीति ।
पाप्मकार्याणामात्मानमप्राप्यैव निवृत्तौ हेतुमाह –
अपहतेति ॥१॥