छान्दोग्योपनिषद्भाष्यम्
अष्टमोऽध्यायःचतुर्थः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
तद्य एवैतं ब्रह्मलोकं ब्रह्मचर्येणानुविन्दन्ति तेषामेवैष ब्रह्मलोकस्तेषाꣳ सर्वेषु लोकेषु कामचारो भवति ॥ ३ ॥
तत् तत्रैवं सति एवं यथोक्तं ब्रह्मलोकं ब्रह्मचर्येण स्त्रीविषयतृष्णात्यागेन शास्त्राचार्योपदेशमनुविन्दन्ति स्वात्मसंवेद्यतामापादयन्ति ये, तेषामेव ब्रह्मचर्यसाधनवतां ब्रह्मविदाम् एष ब्रह्मलोकः, नान्येषां स्त्रीविषयसम्पर्कजाततृष्णानां ब्रह्मविदामपीत्यर्थः । तेषां सर्वेषु लोकेषु कामचारो भवतीत्युक्तार्थम् । तस्मात्परमम् एतत्साधनं ब्रह्मचर्यं ब्रह्मविदामित्यभिप्रायः ॥

विद्याफले यथोक्तरीत्या व्यवस्थिते सत्येतत्फलं विद्यावत्त्वेन केषां सिद्ध्यतीत्याशङ्क्याऽऽह –

तत्रेति ।

ब्रह्मचर्यवतां विद्याद्वारा ब्रह्माख्यो लोकः फलतीत्यर्थः ।

तेषामेवेत्येवकारद्योतितमर्थमाह –

नान्येषामिति ।

ब्रह्मविदामपीति वाङ्मात्रब्रह्मवित्त्वमुच्यते । तेषां ब्रह्मचर्यवतां ब्रह्मविदामिति यावत् ।

ब्रह्मचर्यसाधनवतामेव ब्रह्मवित्त्वेन ब्रह्माख्या लोको भवतीति स्थिते फलितमाह –

तस्मादिति ।

साधनं ब्रह्मविद्यायामिति शेषः । ब्रह्मविदामिति भाविनीं वृत्तिमाश्रित्योक्तम् ॥३॥

॥ इति श्रीमदानन्दगिरिटीकायामष्टमाध्यायस्य चतुर्थः खण्डः ॥