छान्दोग्योपनिषद्भाष्यम्
अष्टमोऽध्यायःचतुर्थः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
तस्माद्वा एतꣳ सेतुं तीर्त्वान्धः सन्ननन्धो भवति विद्धः सन्नविद्धो भवत्युपतापी सन्ननुपतापी भवति तस्माद्वा एतꣳ सेतुं तीर्त्वापि नक्तमहरेवाभिनिष्पद्यते सकृद्विभातो ह्येवैष ब्रह्मलोकः ॥ २ ॥
यस्माच्च पाप्मकार्यमान्ध्यादि शरीरवतः स्यात् न त्वशरीरस्य, तस्माद्वा एतमात्मानं सेतुं तीर्त्वा प्राप्य अनन्धो भवति देहवत्त्वे पूर्वमन्धोऽपि सन् । तथा विद्धः सन् देहवत्त्वे स देहवियोगे सेतुं प्राप्य अविद्धो भवति । तथोपतापी रोगाद्युपतापवान्सन् अनुपतापी भवति । किञ्च यस्मादहोरात्रे न स्तः सेतौ, तस्माद्वा एतं सेतुं तीर्त्वा प्राप्य नक्तमपि तमोरूपं रात्रिरपि सर्वमहरेवाभिनिष्पद्यते ; विज्ञप्त्यात्मज्योतिःस्वरूपमहरिवाहः सदैकरूपं विदुषः सम्पद्यत इत्यर्थः । सकृद्विभातः सदा विभातः सदैकरूपः स्वेन रूपेण एष ब्रह्मलोकः ॥

यथोक्तसेतुप्राप्तौ फलितमाह –

यस्मादिति ।

स्वाभाविकमस्यानर्थत्वमित्याशङ्क्याऽऽह –

देहवत्त्व इति ।

विद्धो दुःखादिसम्बन्धी ।

इतश्चाऽऽत्मसेतोरस्ति महाभागधेयत्वमित्याह –

किंचेति ।

कथं सर्वमपि तमोरूपमहरेव विदुषः स्यान्नहि विद्ययाऽपि विरुद्धोऽर्थः सिद्ध्यतीत्याशङ्क्याऽऽह –

विज्ञप्तीति ।

तत्र हेतुमाह –

सकृदिति ।

ब्रह्मलक्षणोऽवेद्यो लोकः स्वप्रकाशचिदेकतानो यतोऽवतिष्ठतेऽतस्तद्रूपत्वाद्विदुषो यथोक्तरूपत्वमविरुद्धमित्यर्थः ॥२॥