छान्दोग्योपनिषद्भाष्यम्
अष्टमोऽध्यायःचतुर्थः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
अथ य आत्मा स सेतुर्विधृतिरेषां लोकानामसम्भेदाय नैतꣳ सेतुमहोरात्रे तरतो न जरा न मृत्युर्न शोको न सुकृतं न दुष्कृतꣳ सर्वे पाप्मानोऽतो निवर्तन्तेऽपहतपाप्मा ह्येष ब्रह्मलोकः ॥ १ ॥
अथ य आत्मेति । उक्तलक्षणो यः सम्प्रसादः, तस्य स्वरूपं वक्ष्यमाणैरुक्तैरनुक्तैश्च गुणैः पुनः स्तूयते, ब्रह्मचर्यसाधनसम्बन्धार्थम् । य एषः यथोक्तलक्षणः आत्मा, स सेतुरिव सेतुः । विधृतिः विधरणः । अनेन हि सर्वं जगद्वर्णाश्रमादिक्रियाकारकफलादिभेदनियमैः कर्तुरनुरूपं विदधता विधृतम् । अध्रियमाणं हि ईश्वरेणेदं विश्वं विनश्येद्यतः, तस्मात्स सेतुः विधृतिः । किमर्थं स सेतुरिति, आह — एषां भूरादीनां लोकानां कर्तृकर्मफलाश्रयाणाम् असम्भेदाय अविदारणाय अविनाशायेत्येतत् । किंविशिष्टश्चासौ सेतुरिति, आह — नैतम् , सेतुमात्मानमहोरात्रे सर्वस्य जनिमतः परिच्छेदके सती नैतं तरतः । यथा अन्ये संसारिणः कालेन अहोरात्रादिलक्षणेन परिच्छेद्या, न तथा अयं कालपरिच्छेद्य इत्यभिप्रायः, ‘यस्मादर्वाक्संवत्सरोऽहोभिः परिवर्तते’ (बृ. उ. ४ । ४ । १६) इति श्रुत्यन्तरात् । अत एव एनं न जरा तरति न प्राप्नोति । तथा न मृत्युः न शोकः न सुकृतं न दुष्कृतम् , सुकृतदुष्कृते धर्माधर्मौ । प्राप्तिरत्र तरणशब्देन अभिप्रेता, नातिक्रमणम् । कारणं हि आत्मा । न शक्यं हि कारणातिक्रमणं कर्तुं कार्येण । अहोरात्रादि च सर्वं सतः कार्यम् । अन्येन हि अन्यस्य प्राप्तिः अतिक्रमणं वा क्रियेत, न तु तेनैव तस्य । न हि घटेन मृत्प्राप्यते अतिक्रम्यते वा । यद्यपि पूर्वम् ‘य आत्मापहतपाप्मा’ (छा. उ. ८ । ७ । १) इत्यादिना पाप्मादिप्रतिषेध उक्त एव, तथापीहायं विशेषः — न तरतीति प्राप्तिविषयत्वं प्रतिषिध्यते । तत्र अविशेषेण जराद्यभावमात्रमुक्तम् । अहोरात्राद्या उक्ता अनुक्ताश्च अन्ये सर्वे पाप्मानः उच्यन्ते ; अतः अस्मादात्मनः सेतोः निवर्तन्ते अप्राप्यैवेत्यर्थः । अपहतपाप्मा हि एष ब्रह्मैव लोकः ब्रह्मलोकः उक्तः ॥

वाक्यान्तरमादत्ते –

अथेति ।

तस्य तात्पर्यमाह –

उक्तलक्षण इति ।

प्रकारान्तरेण स्तुतिप्रारम्भार्थो वाक्यस्थोऽथशब्दः ।

किमिति स्तुतिरित्यपेक्षायां स्तुत्ये ब्रह्मण्याधारे ब्रह्मचर्याख्यस्य साधनस्य सम्बन्धविधानार्थमित्याह –

ब्रह्मचर्येति ।

यथा मृदादिमयः सेतुर्व्यवस्थाहेतुरस्येदं क्षेत्रमिति तथाऽयमपि व्यवस्थाहेतुरित्याह –

सेतुरिवेति ।

सेतुत्वं साधयति –

विधृतिरिति ।

विधारकत्वमुपपादयति –

अनेनेति ।

वर्णाश्रमादीत्यादिशब्दो वयोवस्थाविषयः । फलादीत्यादिशब्दस्तु तदवान्तरजातीयविषयः । कर्त्रनुरूपक्रियादिभेदविषयनियमः सह वर्णादिव्यवस्थापयता परमेश्वरेण सर्वं जगद्विधृतमिति सम्बन्धः ।

अन्वयमुखेनोक्तमेव व्यतिरेकमुखेनाऽऽह –

अध्रियमाणं हीति ।

उक्तमेवार्थं प्रश्नपूर्वकं विशदयति –

किमर्थमित्यादिना ।

नैतमिति प्रतीकग्रहणं यत्तद्व्याचष्टे –

सेतुमित्यादिना ।

तदेव वैधर्म्यदृष्टान्तेन स्पष्टयति –

यथेत्यादिना ।

परमात्मनो न कालपरिच्छेद्यतेत्यत्राऽऽथर्वणश्रुतिं प्रमाणयति –

यस्मादिति ।

तरतीति तरतेरतिक्रमणार्थो नाऽऽत्मनि सम्भवतीत्यत्र हेतुमाह –

कारणं हीति ।

कार्यस्य कारणातिक्रमणं माभूत् अहोरात्रादेस्त्वात्मातिक्रमणं किं न स्यादित्याशङ्क्याऽऽह –

अहोरात्रादि चेति ।

तरतेरतिक्रमणार्थत्वमङ्गीकृत्यापि निषेधे हेतुमाह –

अन्येनेति ।

तरतिवाक्यस्यापहतपाप्मादिवाक्येन पौनरुक्त्यमाशङ्क्य परिहरति –

यद्यपीति ।

विशेषणानामानन्त्यात्प्रत्येकं प्रतिषेधवचनासम्भवमभिप्रेत्याऽऽह –

अहोरात्राद्या हीति ।

पाप्मकार्याणामात्मानमप्राप्यैव निवृत्तौ हेतुमाह –

अपहतेति ॥१॥