छान्दोग्योपनिषद्भाष्यम्
अष्टमोऽध्यायःतृतीयः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
तानि ह वा एतानि त्रीण्यक्षराणि सतीयमिति तद्यत्सत्तदमृतमथ यत्ति तन्मर्त्यमथ यद्यं तेनोभे यच्छति यदनेनोभे यच्छति तस्माद्यमहरहर्वा एवंवित्स्वर्गं लोकमेति ॥ ५ ॥
तानि ह वा एतानि ब्रह्मणो नामाक्षराणि त्रीण्येतानि सतीयमिति, सकारस्तकारो यमिति च । ईकारस्तकारे उच्चारणार्थोऽनुबन्धः, ह्रस्वेनैवाक्षरेण पुनः प्रतिनिर्देशात् । तेषां तत् तत्र यत् सत् सकारः तदमृतं सद्ब्रह्म — अमृतवाचकत्वादमृत एव सकारस्तकारान्तो निर्दिष्ठः । अथ यत्ति तकारः तन्मर्त्यम् । अथ यत् यम् अक्षरम् , तेनाक्षरेणामृतमर्त्याख्ये पूर्वे उभे अक्षरे यच्छति नियमयति वशीकरोत्यात्मनेत्यर्थः । यत् यस्मात् अनेन यमित्येतेन उभे यच्छति, तस्मात् यम् । संयते इव हि एतेन यमा लक्ष्येते । ब्रह्मनामाक्षरस्यापि इदममृतत्वादिधर्मवत्त्वं महाभाग्यम् , किमुत नामवतः — इत्युपास्यत्वाय स्तूयते ब्रह्म नामनिर्वचनेन । एवं नामवतो वेत्ता एवंवित् । अहरहर्वा एवंवित्स्वर्गं लोकमेतीत्युक्तार्थम् ॥

उपास्यस्तुत्यर्थं नामोक्त्वा तादर्थ्येनैव नामाक्षराणि प्रस्तौति –

तानीति ।

तानि कानीत्यपेक्षायामाह –

एतानीति ।

कथं तकार इत्युच्यत ईकारस्यापि तत्र भावादित्याशङ्क्याऽऽह –

ईकार इति ।

तत्र हेतुमाह –

ह्रस्वेनेति ।

दीर्घमीकारमुद्दिश्य ह्रस्वं पुनरनुवदन्नविवक्षितत्वमेव नामाक्षरेषु तस्य सूचयतीत्यर्थः ।

त्रयाणामक्षराणामवान्तरभेदं दर्शयति –

तेषामिति ।

निर्धारणे षष्ठी । वर्णविभागानन्तर्यमथशब्दार्थः । तकारस्याक्षरसामान्यान्मर्त्यत्वम् ।

कथमक्षरे पूर्वे यमित्यक्षरेण प्रयोक्ता नियमयतीत्याकाङ्क्षायां नियमनस्वाभाव्येनेत्याह –

आत्मन इति ।

यमित्यक्षरस्य नियमनस्वाभाव्यमेव साधयति –

यद्यस्मादिति ।

तस्य तत्स्वभावत्वेऽनुभवमनुकूलयति –

संयते इवेति ।

यमा यमित्यक्षरेणेत्यर्थः ।

तस्य पूर्वाभ्यामुपरिष्टाद्भावित्वं तन्नियामकत्वे हेतुरिति मत्वाऽऽह –

एतेनेति ।

लक्ष्येते पूर्वे अक्षरे इति शेषः ।

ब्रह्मणः सत्यमिति नाम तस्य यन्निर्वचनं कृतं तस्य प्रयोजनमाह –

ब्रह्मेति ।

फलवाक्यस्थमेवंवित्पदं व्याकरोति –

एवमिति ।

वाक्यं तु न व्याख्येयं प्रागेव व्याख्यातत्वादित्याह –

अहरिति ॥५॥

॥ इति श्रीमदानन्दगिरिटीकायां अष्टमाध्यायस्य तृतीयः खण्डः ॥