छान्दोग्योपनिषद्भाष्यम्
अष्टमोऽध्यायःपञ्चमः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
तद्य एवैतावरं च ण्यं चार्णवौ ब्रह्मलोके ब्रह्मचर्येणानुविन्दन्ति तेषामेवैष ब्रह्मलोकस्तेषाꣳ सर्वेषु लोकेषु कामचारो भवति ॥ ४ ॥
य इमेऽर्णवादयो ब्राह्मलौकिकाः सङ्कल्पजाश्च पित्रादयो भोगाः, ते किं प्रार्थिवा आप्याश्च यथेह लोके दृश्यन्ते तद्वदर्णववृक्षपूःस्वर्णमण्डपानि, आहोम्वित् मानसप्रत्ययमात्राणीति । किञ्चातः ? यदि पार्थिवा आप्याश्च स्थूलाः स्युः, हृद्याकाशे समाधानानुपपत्तिः । पुराणे च मनोमयानि ब्रह्मलोके शरीरादीनीति वाक्यं विरुध्येत ; ‘अशोकमहिमम्’ (बृ. उ. ५ । १० । १) इत्याद्याश्च श्रुतयः । ननु समुद्राः सरितः सरांसि वाप्यः कूपा यज्ञा वेदा मन्त्रादयश्च मूर्तिमन्तः ब्रह्माणमुपतिष्ठन्ते इति मानसत्वे विरुध्येत पुराणस्मृतिः । न, मूर्तिमत्त्वे प्रसिद्धरूपाणामेव तत्र गमनानुपपत्तेः । तस्मात्प्रसिद्धमूर्तिव्यतिरेकेण सागरादीनां मूर्त्यन्तरं सागरादिभिरुपात्तं ब्रह्मलोकगन्तृ कल्पनीयम् । तुल्यायां च कल्पनायां यथाप्रसिद्धा एव मानस्यः आकारवत्यः पुंस्त्र्याद्या मूर्तयो युक्ताः कल्पयितुम् , मानसदेहानुरूप्यसम्बन्धोपपत्तेः । दृष्टा हि मानस्य एव आकारवत्यः पुंस्त्र्याद्या मूर्तयः स्वप्ने । ननु ता अनृता एव ; ‘त इमे सत्याः कामाः’ (छा. उ. ८ । ३ । १) इति श्रुतिः तथा सति विरुध्येत । न, मानसप्रत्ययस्य सत्त्वोपपत्तेः । मानसा हि प्रत्ययाः स्त्रीपुरुषाद्याकाराः स्वप्ने दृश्यन्ते । ननु जाग्रद्वासनारूपाः स्वप्नदृश्याः, न तु तत्र स्त्र्यादयः स्वप्ने विद्यन्ते । अत्यल्पमिदमुच्यते । जाग्रद्विषया अपि मानसप्रत्ययाभिनिर्वृत्ता एव, सदीक्षाभिनिर्वृत्ततेजोबन्नमयत्वाज्जाग्रद्विषयाणाम् । सङ्कल्पमूला हि लोका इति च उक्तम् ‘समक्लृप्तां द्यावापृथिवी’ (छा. उ. ७ । ४ । २) इत्यत्र । सर्वश्रुतिषु च प्रत्यगात्मन उत्पत्तिः प्रलयश्च तत्रैव स्थितिश्च ‘यथा वा अरा नाभौ’ (छा. उ. ७ । १५ । १) इत्यादिना उच्यते । तस्मान्मानसानां बाह्यानां च विषयाणाम् इतरेतरकार्यकारणत्वमिष्यत एव बीजाङ्कुरवत् । यद्यपि बाह्या एव मानसाः मानसा एव च बाह्याः, नानृतत्वं तेषां कदाचिदपि स्वात्मनि भवति । ननु स्वप्ने दृष्टाः प्रतिबुद्धस्यानृता भवन्ति विषयाः । सत्यमेव । जाग्राद्बोधापेक्षं तु तदनृतत्वं न स्वतः । तथा स्वप्नबोधापेक्षं च जाग्रद्दृष्टविषयानृतत्वं न स्वतः । विशेषाकारमात्रं तु सर्वेषां मिथ्याप्रत्ययनिमित्तमिति वाचारम्भणं विकारो नामधेयमनृतम् , त्रीणि रूपाणीत्येव सत्यम् । तान्यप्याकारविशेषतोऽनृतं स्वतः सन्मात्ररूपतया सत्यम् । प्राक्सदात्मप्रतिबोधात्स्वविषयेऽपि सर्वं सत्यमेव स्वप्नदृश्या इवेति न कश्चिद्विरोधः । तस्मान्मानसा एव ब्राह्मलौकिका अरण्यादयः सङ्कल्पजाश्च पित्रादयः कामाः । बाह्यविषयभोगवदशुद्धिरहितत्वाच्छुद्धसत्त्वसङ्कल्पजन्या इति निरतिशयसुखाः सत्याश्च ईश्वराणां भवन्तीत्यर्थः । सत्सत्यात्मप्रतिबोधेऽपि रज्ज्वामिव कल्पिताः सर्पादयः सदात्मस्वरूपतामेव प्रतिपद्यन्त इति सदात्मना सत्या एव भवन्ति ॥

ब्रह्मलोकस्थान्पदार्थान्निर्णेतुं विचारमवतारयन्नादौ तद्विषयमाह –

य इम इति ।

तत्रैकं पक्षमुत्थाप्य दृष्टान्तेन तदुत्थितिप्रकारमाह –

ते किमिति ।

पक्षान्तरं स्वप्नदृष्टान्तवशाद्दर्शयति –

आहोस्विदिति ।

कस्मिन्पक्षे को लाभः को वा दोषः, इति शिष्यः पृच्छति –

किंचात इति ।

घटस्थौल्ये दोषदर्शनान्मानसत्त्वेन सौक्ष्म्ये च पुराणानुग्रहसंभवात्ते मानसा एवेत्याह –

यदीति ।

न केवलं तेषां स्थौल्ये स’त्युभे अस्मिन्नि’त्यादिश्रुत्या पुराणस्मृत्या च विरोधः किं त्वशोकं संतापवर्जितमहिमं शीतस्पर्शशून्यं ब्रह्मलोकमुपयन्तीत्याद्याश्च श्रुतयो ब्रह्मलोकं निरूपयन्त्यस्तत्रत्यानामर्थानां स्थौल्ये विरुध्येरन् ।

स्थूलानां पदार्थानां तत्र सत्त्वे शीतस्पर्शादेरवर्जनीयत्वादित्याह –

अशोकमिति ।

ब्राह्मलौकिकपदार्थानां मानसत्वे पुराणस्मृत्यन्तरविरोधं शङ्कते –

नन्विति ।

किं दृश्यमानरूपेण समुद्रादीनां ब्रह्मलोकगमनं स्मृत्यर्थः किं वा स्वरूपान्तरेणेति विकल्प्याऽद्यं दूषयति –

न मूर्तिमत्व इति ।

उभयत्रानुपलम्भप्रसङ्गादिति ।

प्रथमपक्षायोगेद्वितीयंपक्षंपरिशिष्टमाचष्टे –

तस्मादिति ।

अस्तु द्वितीयो विकल्पः का नो हानिरित्याशङ्क्य ब्रह्मलके मानसेन देहेन मानसादीनामेव सागरादीनां मानसरूपेण सह सम्बन्धोपपत्तेर्मानस्य एव मूर्तयस्तेषां ब्रह्मलोकस्थाःकल्पयितुं युक्ता इत्याह –

तुल्यायां चेति ।

तर्हि मनोरथकल्पितवदतिचञ्चलत्वाद्भोगयोग्याकारत्वं सागरादीनां न स्यादित्याशङ्क्याह –

दृष्टा हीति ।

स्वप्नतुल्यत्वे मिथ्यात्वप्रसक्तिरिति शङ्कते –

नन्विति ।

प्रसङ्गस्येष्टत्वमाशङ्क्य श्रुतिविरोधमाह –

त इम इति ।

ये स्वप्ने दृष्टास्ते न सन्ति न तु न दृष्टा इति दर्शनं न बाध्यते तथा च स्वाप्नसंवेदनस्य सत्यत्वमिष्टं तथैव ब्राह्मलौकिकानां पदर्थानाम् ।

मानस्य इति दृष्टान्तं विवृणोति –

मानसा हीति ।

जागरिते संविदतिरिक्ताः सन्ति पदार्थास्तद्वासनारूपास्ते स्वप्ने भान्ति न तु संविदात्मकत्वं तेषामिति शङ्कते –

नन्विति ।

जागरितस्यापि संविद्विवर्तत्वान्न पृथगस्ति सत्वमित्युत्तरमाह –

अत्यल्पमिति ।

भूमविद्यालोचनायामपि जाग्रद्विषयाणां संविद्विवर्तत्वं सेत्स्यतीत्याह –

संकल्पमूला हीति ।

इतश्च जाग्रद्विषयाणां संविद्विवर्तत्वमित्याह सर्वश्रुतिषु चेति । ननु कुलालो घटं चिकीर्षुर्मनसि संकल्पितमाकारं बहिर्निर्मिमीते तत्र सङ्कल्पो बाह्याकरस्य निमित्तं संकल्पश्च पूर्वानुभूतसजातीयगोचरः पूर्वानुभूतोऽपि पूर्वतरसंकल्पनिमित्त इति निमित्तनैमित्तिकभावः ।

सर्वस्य संविद्विवर्तत्वे कथमुपपद्यते तत्राऽह –

तस्मादिति ।

यस्मात्सतः सर्वस्येक्षणं पूर्वकल्पीयसदृशगोचरं पूर्वकल्पीयास्ततः पूर्वतरेक्षणनिमित्ता इति संविदेवेत्थं स्वाविद्यया विवर्तते निरवयवस्य सन्मात्रस्य स्वारस्येनेक्षणाद्यनुपपत्तेस्तस्मात्सर्वस्य संविद्विवर्तत्वेऽपि निमित्तनैमित्तिकभावोऽयमनिर्वाच्यो न विरुध्यत इत्यर्थः ।

अथ सच्छब्दवाच्यायाः संविदोऽनिर्वाच्यस्पन्दनकाले ये विषया बाह्यतया भासन्ते तेषां कदाचिदपि संविदतिरेकेण सत्त्वानङ्गीकारादाद्यन्तासत्त्वलक्षणमनृतत्वमापद्येत तथा च व्यवहारभङ्गप्रसङ्गस्तत्राऽऽह –

यद्यपीति ।

तथाऽपि नानृतत्वमित्यध्याहारः अध्यस्तस्याधिष्ठानमेव स्वात्मातस्मिन्न कदाचिदप्यत्यन्तासत्त्वं तादात्मयेनैव स्फुरणादतो न व्यवहारभङ्गप्रसङ्ग इति भावः ।

कदाचिदपि नानृतत्वमिति वदता प्रतीतिकालात्कालान्तरेऽपि विषयाणां नासत्त्वमित्युक्तं तत्रानुभवविरोधं शङ्कते –

नन्विति ।

स्वप्नदृष्टानां समीहितमेव कालान्तरे मिथ्यात्वमित्यङ्गीकरोति –

सत्यमिति ।

तर्हि तेषामसत्त्वमेव स्वीकृतमित्याशङ्क्याऽऽह –

जाग्रदिति ।

तथाऽपि जाग्रद्बोधेनाविषयीकरणादसत्त्वं स्वप्नदृष्टानामेष्टव्यमित्याशङ्क्याऽऽह –

तथेति ।

यदि जाग्रद्बोधेनाविषयीकरणमात्रेणासत्त्वं स्वप्नदृष्टानां पदार्थानामिष्टं तर्हि जाग्रद्विषयाणामपि स्वप्नबोधेनाविषयीकरणादसत्त्वप्रसङ्गस्तन्न कदाचिदपि संविदि विषयाणामत्यन्तासत्त्वमित्यर्थः ।

कथं तर्हि वाचारम्भणश्रुतिरित्याशङ्क्याऽऽह –

विशेषेति ।

त्रयाणां रूपाणां सत्यत्वे विशेषाकारमात्रं मिथ्येत्युक्तमयुक्तं तेष्वपि विशेषाकारस्य सत्त्वादित्याशङ्क्याऽऽह –

तान्यपीति ।

कथं तर्हि तेषु सत्यपदं प्रयुक्तमित्याशङ्क्याऽऽह –

स्वत इति ।

तर्हि तत्सत्यमित्येतावत्प्रयोक्तव्यं किमिति त्रीणि रूपाणीत्येव सत्यमित्युक्तं तत्राऽऽह –

प्रागिति ।

प्रकृतमुपसंहरति –

तस्मादिति ।

प्रथमपक्षवद्द्वितीयपक्षे दोषाभावादिति यावत् ।

यद्यैहिकविषयवद्ब्राह्मलौकिका अपि विषया विचार्यमाणाः सत्यास्तर्हि कस्तत्र विशेषो येनैतत्परित्यागेन तत्कामिनां विद्याविधानं तत्राऽऽह –

बाह्येति ।

जन्या ब्रह्मलोके विषया इति शेषः । प्रकृतायाः फलश्रुतेरित्यध्याहारः ।

ननु तेषामविद्यादशायामर्थक्रियाकारित्वरूपसत्यत्वसंभवेऽपि कुतो विद्यावस्थायां सत्यत्वमित्याशङ्क्याऽह –

सत्सत्येति ।

यथा रज्ज्वां कल्पितसर्पादयो रज्जुतत्त्वबोधे तदात्मतामेवाऽऽपाद्यन्ते विवेचनात्तथा सर्वेऽपि विषया विद्यावस्थायामन्वयव्यतिरेकाभ्यां परिहारायासन्मात्रत्वमेव प्राप्नुवन्तीति तत्सत्यत्वमविरुद्धमित्यर्थः ॥४॥

॥ इति श्रीमदानन्दगिरिटीकायामष्टमाध्यायस्य पञ्चमः खण्डः ॥