छान्दोग्योपनिषद्भाष्यम्
अष्टमोऽध्यायःषष्ठः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
यस्तु हृदयपुण्डरीकगतं यथोक्तगुणविशिष्टं ब्रह्म ब्रह्मचर्यादिसाधनसम्पन्नः त्यक्तबाह्यविषयानृततृष्णः सन् उपास्ते, तस्येयं मूर्धन्यया नाड्या गतिर्वक्तव्येति नाडीखण्ड आरभ्यते —

सगुणविद्याफलस्वरूपमित्थमुपपाद्य तत्प्राप्तये गतिर्वक्तव्येति नाडीखण्डमवतारयति –

यस्त्विति ।

यथोक्तो गुणः सत्यकामत्वादिः । ब्रह्मचर्यादीत्यादिशब्दः शमदमादिसङ्ग्रहार्थः ।

तमेवाऽऽदिशब्दार्थं स्पष्टयति –

त्यक्तेति ।

अधिकारिणः सफलोपास्तिविध्यानन्तर्यमथशब्दार्थः । रसेनान्नस्येति शेषः । तदाकारा इति तच्छब्दोऽन्नरसविषयः । शुक्लस्येत्यादिषष्ठी पूर्ववत् । श्रुतावितिशब्दोऽध्याहारद्योतनार्थः ।