सगुणविद्याफलस्वरूपमित्थमुपपाद्य तत्प्राप्तये गतिर्वक्तव्येति नाडीखण्डमवतारयति –
यस्त्विति ।
यथोक्तो गुणः सत्यकामत्वादिः । ब्रह्मचर्यादीत्यादिशब्दः शमदमादिसङ्ग्रहार्थः ।
तमेवाऽऽदिशब्दार्थं स्पष्टयति –
त्यक्तेति ।
अधिकारिणः सफलोपास्तिविध्यानन्तर्यमथशब्दार्थः । रसेनान्नस्येति शेषः । तदाकारा इति तच्छब्दोऽन्नरसविषयः । शुक्लस्येत्यादिषष्ठी पूर्ववत् । श्रुतावितिशब्दोऽध्याहारद्योतनार्थः ।