छान्दोग्योपनिषद्भाष्यम्
अष्टमोऽध्यायःषष्ठः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
अथ या एता हृदयस्य नाड्यस्ताः पिङ्गलस्याणिम्नस्तिष्ठन्ति शुक्लस्य नीलस्य पीतस्य लोहितस्येत्यसौ वा आदित्यः पिङ्गल एष शुक्ल एष नील एष पीत एष लोहितः ॥ १ ॥
अथ या एताः वक्ष्यमाणाः हृदयस्य पुण्डरीकाकारस्य ब्रह्मोपासनस्थानस्य सम्बन्धिन्यः नाड्यः हृदयमांसपिण्डात्सर्वतो विनिःसृताः आदित्यमण्डलादिव रश्मयः, ताश्चैताः पिङ्गलस्य वर्णविशेषविशिष्टस्य अणिम्नः सूक्ष्मरसस्य रसेन पूर्णाः तदाकारा एव तिष्टन्ति वर्तन्त इत्यर्थः । तथा शुक्लस्य नीलस्य पीतस्य लोहितस्य च रसस्य पूर्णा इति सर्वत्र अध्याहार्यम् । सौरेण तेजसा पित्ताख्येन पाकाभिनिर्वृत्तेन कफेन अल्पेन सम्पर्कात् पिङ्गलं भवति सौरं तेजः पित्ताख्यम् । तदेव च वातभूयस्त्वात् नीलं भवति । तदेव च कफभूयस्त्वात् शुक्लम् । कफेन समतायां पीतम् । शोणितबाहुल्येन लोहितम् । वैद्यकाद्वा वर्णविशेषा अन्वेष्टव्याः कथं भवन्तीति । श्रुतिस्त्वाह — आदित्यसम्बन्धादेव तत्तेजसो नाडीष्वनुगतस्यैते वर्णविशेषा इति । कथम् ? असौ वा आदित्यः पिङ्गलो वर्णतः, एष आदित्यः शुक्लोऽप्येष नील एष पीत एष लोहित आदित्य एव ॥

कथं पुनरन्नरसस्य पिङ्गलादिविचित्रो वर्णविशेषः सिद्ध्यतीत्याशङ्क्याऽऽह –

सौरेणेति ।

यत्पित्ताख्यं सौरं तेजस्तेन पाकोऽशितस्य पीतस्य च जायते तेनाभिनिर्वृत्तेनाल्पेन कफेन संपर्कात्तदेव पित्ताख्यं सौरं तेजो भवति पिङ्गलं तेन संपर्काद्रसस्य नाडीनां च जायते पिङ्गलत्वमित्यर्थः ।

तदेव च पित्ताख्यं सौरं तेजो यथोक्तपाकाभिनिर्वृत्तेन प्रभूतेन वातेन सम्बन्धात्तद्भूयस्त्वाद्भवति नीलं तेन च संपर्कादन्नरसस्य नाडीनां च जायते नैल्यमित्याह –

तदेवेति ।

प्रकृतमेव पित्ताख्यं सौरं तेजो यथोक्तपाकवशादभिनिर्वृत्तकफस्य स्वसम्बन्धिनो भूयस्त्वाद्भवति शुक्लं तेन च सम्पर्कादन्नरसस्य नाडीनां च शौक्ल्यं भवतीत्याह –

तदेव चेति ।

उक्तपाकाभिनिर्वृत्तेन कफेन तदभिनिर्वृत्तस्यैव वातस्य समतायां तदेव तेजस्तत्सम्बन्धि पीतं जायते तत्सम्बन्धाच्चान्नरसस्य च नाडीनां च पीतत्वं भवतीत्याह –

कफेनेति ।

यदा तु यथोक्तपाकाभिनिष्पन्नं शोणितं बहुलं भवति तदा तस्य नाडीनां च लौहित्यं भवतीत्याह –

शोणितेति ।

पक्षान्तरमाह –

वैद्यकाद्वेति ।

अन्वेषणप्रकारमाह –

कथमिति ।

नाभेरूर्ध्वं हृदयादधस्तादामाशयमाचक्षते । तद्गतं तेजःसौरं पित्तमित्युच्यते । तच्चान्नरसस्य धात्वन्तरसहकारिवशाद्वर्णविशेषे कारणम् । “आमाशयगतं पित्तं रञ्जकं रसरञ्जनात्” (अ.हृ. १३ । २५) इत्यादिवचनादित्यर्थः ।

कथं तर्हि पिङ्गलस्येत्याद्या श्रुतिरित्याशङ्क्याऽऽह –

श्रुतिस्त्विति ।

उक्तमर्थमाकाङ्क्षाद्वारा स्फोरयति –

कथमित्यादिना ।

आदित्यस्य पैङ्गल्यादयो वर्णविशेषाः शास्त्रप्रामाण्यादेव प्रत्येतव्याः ॥१॥