आदित्यस्य तेजसो नाडीष्वनुगतस्य पैङ्गल्यादयो वर्णविशेषा भवन्तीत्युक्तं तदेव प्रश्नद्वारा दृष्टान्तावष्टम्भेन स्पष्टयति –
तस्येत्यादिना ।
उभयत्राऽऽदित्यमण्डले पुरुषे चेत्यर्थः ।
तत्र पूर्वोक्तमेव दृष्टान्तमनुवदति –
यथेति ।
उभौ ग्रामौ महापथो यथा गच्छति तथोभयत्राऽऽदित्यस्य रश्मयः प्रविष्टाः इत्यर्थः ।
तमेव प्रवेशं प्रश्नद्वारा प्रकटयति –
कथमित्यादिना ।
कथं नाडीनां पिङ्गलादिवर्णत्वमित्याशङ्क्य सौरेण तेजसेत्यादिनोक्तं स्मारयति –
यथोक्तास्त्विति ।
अमुष्मिन्नादित्ये सृप्ता इति सम्बन्धः ।
कथं स्त्रीलिङ्गेन निर्दिष्टानां रश्मीनां पुंलिङ्गेन निर्देशस्तत्राऽऽह –
रश्मीनामिति ॥२॥