छान्दोग्योपनिषद्भाष्यम्
अष्टमोऽध्यायःषष्ठः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
तद्यत्रैतत्सुप्तः समस्तः सम्प्रसन्नः स्वप्नं न विजानात्यासु तदा नाडीषु सृप्तो भवति तं न कश्चन पाप्मा स्पृशति तेजसा हि तदा सम्पन्नो भवति ॥ ३ ॥
तत् तत्र एवं सति यत्र यस्मिन्काले एतत् स्वपनम् अयं जीवः सुप्तो भवति । स्वापस्य द्विप्रकारत्वाद्विशेषणं समस्त इति । उपसंहृतसर्वकरणवृत्तिरित्येतत् । अतः बाह्यविषयसम्पर्कजनितकालुष्याभावात् सम्यक् प्रसन्नः सम्प्रसन्नो भवति । अत एव स्वप्नं विषयाकाराभासं मानसं स्वप्नप्रत्ययं न विजानाति नानुभवतीत्यर्थः । यदैवं सुप्तो भवति, आसु सौरतेजःपूर्णासु यथोक्तासु नाडीषु तदा सृप्तः प्रविष्टः, नाडीभिर्द्वारभूताभिः हृदयाकाशं गतो भवतीत्यर्थः । न हि अन्यत्र सत्सम्पत्तेः स्वप्नादर्शनमस्तीति सामर्थ्यात् नाडीष्विति सप्तमी तृतीयया परिणम्यते । तं सता सम्पन्नं न कश्चन न कश्चिदपि धर्माधर्मरूपः पाप्मा स्पृशतीति, स्वरूपावस्थितत्वात् तदा आत्मनः । देहेन्द्रियविशिष्टं हि सुखदुःखकार्यप्रदानेन पाप्मा स्पृशतीति, न तु सत्सम्पन्नं स्वरूपावस्थं कश्चिदपि पाप्मा स्प्रष्टुमुत्सहते, अविषयत्वात् । अन्यो हि अन्यस्य विषयो भवति, न त्वन्यत्वं केनचित्कुतश्चिदपि सत्सम्पन्नस्य । स्वरूपप्रच्यवनं तु आत्मनो जाग्रत्स्वप्नावस्थां प्रति गमनं बाह्यविषयप्रतिबोधः अविद्याकामकर्मबीजस्य ब्रह्मविद्याहुताशादाहनिमित्तमित्यवोचाम षष्ठे एव ; तदिहापि प्रत्येतव्यम् । यदैवं सुप्तः सौरेण तेजसा हि नाड्यन्तर्गतेन सर्वतः सम्पन्नः व्याप्तः भवति । अतः विशेषेण चक्षुरादिनाडीद्वारैर्बाह्यविषयभोगाय अप्रसृतानि करणानि अस्य तदा भवन्ति । तस्मादयं करणानां निरोधात् स्वात्मन्येवावस्थितः स्वप्नं न विजानातीति युक्तम् ॥

नाडीस्वरूपमुक्त्वा विज्ञानात्मस्वापाधिकरणत्वेन ताः स्तोतुमादौ स्वापं प्रस्तौति –

तत्तत्रेति ।

सप्तम्यर्थमेव स्फुटयति –

एवं सतीति ।

नाडीस्वरूपे पूर्वोक्तरीत्या निरूपिते सतीत्यर्थः । एतत्स्वपनमिति क्रियाविशेषणम् ।

समस्तविशेषणस्यार्थवत्वमाह –

स्वापस्येति ।

दर्शनवृत्तिमददर्शनवृत्तिश्चेति द्विप्रकारत्वं स्वापस्येष्टम् । तत्र दर्शनवृत्तेः स्वापस्य व्यावृत्त्यर्थं समस्त इति विशेषणम् ।

तस्य संपिण्डितमर्थमाह –

उपसंहृतेति ।

विशेषणान्तरमुत्थाप्य व्याकरोति –

अत इति ।

उपसंहृतसर्वकरणत्वादिति यावत् ।

उक्तं विशेषणद्वयमुपजीव्य स्वप्नमित्यादि व्याचष्टे –

अत एवेति ।

नाडीषु प्रविष्टो भवतीति यदुक्तं तदयुक्तं य एषोऽन्तर्हृदय आकशस्तस्मिञ्शेत इत्यङ्गीकारादित्याशङ्क्याऽऽह –

नाडीभिरिति ।

नाडीष्विति श्रुता सप्तमी कथं नाडीभिरिति तृतीयया व्याख्यायते तत्राऽऽह –

न हीति ।

तदेति सुषुप्त्यवस्थोच्यते ।

तस्यामवस्थायां कर्माभावे कथं पुनरुत्थानमित्याशङ्क्याऽऽह –

देहेति ।

सुखदुःखानुभवाभावात्पाप्मासंस्पर्शोऽत्र विवक्षितो न तु कर्माभावादित्यर्थः ।

अविषयत्वं साधयति –

अन्यो हीति ।

सुषुप्ते स्वरूपावस्थस्य कथं प्रच्यवनमित्याशङ्क्याऽऽह –

स्वरूपेति ।

अविद्याकामकर्मणां बीजमनाद्यज्ञानं तस्य ब्रह्मविद्याख्येनाग्नीना न स्वापे दाहस्तन्निमित्तं सुषुप्तस्य पुनः स्वरूपप्रच्यवनमिति सम्बन्धः ।

तदेव व्याचष्टे –

जाग्रदिति ।

कीदृक्प्रच्यवनमित्यपेक्षायामाह –

बाह्येति ।

एतच्च सति सम्पद्य न विदुरित्यादावुदितमित्याह –

इत्यवोचामेति ।

तेजसा हेति पाप्मास्पर्शे श्रौतौ हेतुस्तं हेतुं व्याचष्टे –

यदेति ।

तद्व्याप्तिकार्यमाह –

अत इति ।

कार्यकरणसंस्पर्शाभावफलं दर्शयति –

तस्मादिति ॥३॥