छान्दोग्योपनिषद्भाष्यम्
अष्टमोऽध्यायःषष्ठः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
अथ यत्रैतदबलिमानं नीतो भवति तमभित आसीना आहुर्जानासि मां जानासि मामिति स यावदस्माच्छरीरादनुत्क्रान्तो भवति तावज्जानाति ॥ ४ ॥
तत्र एवं सति, अथ यत्र यस्मिन्काले अबलिमानम् अबलभावं देहस्य रोगादिनिमित्तं जरादिनिमित्तं वा कृशीभावम् एतत् नयनं नीतः प्रापितः देवदत्तो भवति मुमूर्षुर्यदा भवतीत्यर्थः । तमभितः सर्वतो वेष्टयित्वा आसीना ज्ञातयः आहुः — जानासि मां तव पुत्रं जानासि मां पितरं च इत्यादि । स मुमूर्षुः यावदस्माच्छरीरादनुत्क्रान्तः अनिर्गतः भवति तावत्पुत्रादीञ्जानाति ॥

नाडीरेवं स्तुत्वा ताभिरूर्ध्वगमनं प्रदर्शयितुं मरणकालं प्रसञ्जयति –

तत्रेति ।

तस्यैवार्थमाह –

एवं सतीति ।

नाडीनामुक्तरीत्या प्राशस्त्ये सतीत्यर्थः । ताभिरूर्ध्वगमनप्रदर्शनप्रारम्भार्थोऽथशब्दः । रोगादीत्यादिपदमागन्तुकसर्वनिमित्तसंग्रहार्थम् । जरादीत्यादिपदं तु नैसर्गिकसर्वनिमित्तद्योतनार्थमिति भेदः । एतन्नयनमिति क्रियाविशेषणम् ॥४॥