छान्दोग्योपनिषद्भाष्यम्
अष्टमोऽध्यायःषष्ठः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
अथ यत्रैतदस्माच्छरीरादुत्क्रामत्यथैतैरेव रश्मिभिरूर्ध्वमाक्रमते स ओमिति वा होद्वा मीयते स यावत्क्षिप्येन्मनस्तावदादित्यं गच्छत्येतद्वै खलु लोकद्वारं विदुषां प्रपदनं निरोधोऽविदुषाम् ॥ ५ ॥
अथ यत्र यदा, एतत्क्रियाविशेषणमिति, अस्माच्छरीरादुत्क्रामति, अथ तदा एतैरेव यथोक्ताभिः रश्मिभिः ऊर्ध्वमाक्रमते यथाकर्मजितं लोकं प्रैति अविद्वान् । इतरस्तु विद्वान् यथोक्तसाधनसम्पन्नः स ओमिति ओङ्कारेण आत्मानं ध्यायन् यथापूर्वं वा ह एव, उद्वा ऊर्ध्वं वा विद्वांश्चेत् इतरस्तिर्यङ्वेत्यभिप्रायः । मीयते प्रमीयते गच्छतीत्यर्थः । स विद्वान् उत्क्रमिष्यन्यावत्क्षिप्येन्मनः यावता कालेन मनसः क्षेपः स्यात् , तावता कालेन आदित्यं गच्छति प्राप्नोति क्षिप्रं गच्छतीत्यर्थः, न तु तावतैव कालेनेति विवक्षितम् । किमर्थमादित्यं गच्छतीति, उच्यते — एतद्वै खलु प्रसिद्धं ब्रह्मलोकस्य द्वारं य आदित्यः ; तेन द्वारभूतेन ब्रह्मलोकं गच्छति विद्वान् । अतः विदुषां प्रपदनम् , प्रपद्यते ब्रह्मलोकमनेन द्वारेणेति प्रपदनम् । निरोधनं निरोधः अस्मादादित्यादविदुषां भवतीति निरोधः, सौरेण तेजसा देहे एव निरुद्धाः सन्तः मूर्धन्यया नाड्या नोत्क्रमन्त एवेत्यर्थः, ‘विष्वङ्ङन्या’ (छा. उ. ८ । ६ । ६) इति श्लोकात् ॥

प्रारब्धकर्मावसानार्थोऽथशब्दः । एतदिति क्रियाविशेषणमेतदुत्क्रमणं यथा स्यात्तथेत्यर्थः । यथोक्ताभिर्नाडीषु प्रसृताभिरादित्यमण्डलादागताभिरिति यावत् । कर्मणा जितं वशीकृतं स्वात्मसम्बन्धितामापादितं लोकमनतिक्रम्य तं प्रत्यविद्वान्केवलकर्मवान्गच्छतीत्यर्थः । दहरविद्यावतो गतिं दर्शयति –

इतरस्त्विति ।

यथोक्तसाधनं दहरविज्ञानं तेन सम्पन्नो विशिष्ट इत्यर्थः । ध्यायन्गच्छतीत्युत्तरत्र सम्बन्धः । यथापूर्वं स्वस्थावस्थायामिव मरणावस्थायामपीत्यर्थः ।

वा हेतिनिपातद्वयस्यावधारणरूपमर्थं कथयति –

एवेति ।

उच्छब्दार्थमाह –

ऊर्ध्वमिति ।

वाशब्देन द्योतितं विकल्पं दर्शयति –

विद्वाञ्श्चेदिति ।

यदि विद्वान्प्रमीयते तदोर्ध्वमेव गच्छति । यदि त्वविद्वान्प्रमीयते तदा तिर्यगेव गच्छतीति विभागः ।

विदुषस्त्यक्तदेहस्याऽऽदित्यप्राप्तावत्यन्तशैघ्र्यं दर्शयितुमनन्तरवाक्यमादत्ते –

स विद्वानिति ।

तद्व्याचष्टे –

यावतेति ।

आदित्यप्राप्तौ किं स्यादित्यत आह –

अत इति ।

अविदुषामपि तर्हि प्राप्तानामादित्यं ततो निरुद्धानां पुनर्ब्रह्मलोकाप्राप्तिरित्याशङ्क्याऽऽह –

सौरेणेति ।

देहे निरुद्धानां मूर्धन्यया नाड्या नोत्क्रमणमविदुषामित्यत्र लिङ्गं दर्शयति –

विष्वङ्ङिति ॥५॥