प्रारब्धकर्मावसानार्थोऽथशब्दः । एतदिति क्रियाविशेषणमेतदुत्क्रमणं यथा स्यात्तथेत्यर्थः । यथोक्ताभिर्नाडीषु प्रसृताभिरादित्यमण्डलादागताभिरिति यावत् । कर्मणा जितं वशीकृतं स्वात्मसम्बन्धितामापादितं लोकमनतिक्रम्य तं प्रत्यविद्वान्केवलकर्मवान्गच्छतीत्यर्थः । दहरविद्यावतो गतिं दर्शयति –
इतरस्त्विति ।
यथोक्तसाधनं दहरविज्ञानं तेन सम्पन्नो विशिष्ट इत्यर्थः । ध्यायन्गच्छतीत्युत्तरत्र सम्बन्धः । यथापूर्वं स्वस्थावस्थायामिव मरणावस्थायामपीत्यर्थः ।
वा हेतिनिपातद्वयस्यावधारणरूपमर्थं कथयति –
एवेति ।
उच्छब्दार्थमाह –
ऊर्ध्वमिति ।
वाशब्देन द्योतितं विकल्पं दर्शयति –
विद्वाञ्श्चेदिति ।
यदि विद्वान्प्रमीयते तदोर्ध्वमेव गच्छति । यदि त्वविद्वान्प्रमीयते तदा तिर्यगेव गच्छतीति विभागः ।
विदुषस्त्यक्तदेहस्याऽऽदित्यप्राप्तावत्यन्तशैघ्र्यं दर्शयितुमनन्तरवाक्यमादत्ते –
स विद्वानिति ।
तद्व्याचष्टे –
यावतेति ।
आदित्यप्राप्तौ किं स्यादित्यत आह –
अत इति ।
अविदुषामपि तर्हि प्राप्तानामादित्यं ततो निरुद्धानां पुनर्ब्रह्मलोकाप्राप्तिरित्याशङ्क्याऽऽह –
सौरेणेति ।
देहे निरुद्धानां मूर्धन्यया नाड्या नोत्क्रमणमविदुषामित्यत्र लिङ्गं दर्शयति –
विष्वङ्ङिति ॥५॥