यन्मायोपाधि सविशेषं चैतन्यं निरुपाधि निर्विशेषमिति सविशेषनिर्विशेषयोरभेदाभिप्रायेण प्रजापतिवाक्यं व्याकर्तुमादत्ते –
य आत्मेति ।
तत्र सोऽन्वेष्टव्य इति वाक्ये सशब्दार्थमाह –
यस्येति ।
उपासनमपि किमर्थमित्यपेक्षायामाह –
उपलब्ध्यर्थमिति ।
तस्यैतत्फलमिति सम्बन्धः ।
कथं निर्गुणविद्यायाः सर्वलोककामावाप्तिः फलमित्याशङ्क्याऽऽह –
सर्वात्मतेति ।
परिच्छेदभ्रमव्यावृत्त्या पूर्णस्वरूपेणावस्थितिरित्यर्थः ।
प्रजापतिवाक्यात्प्रतीयमानविधिस्वरूपमाह –
अन्वेष्टव्य इति ।
एवकारव्यावर्त्यं दर्शयति –
नापूर्वविधिरिति ।
शब्दादेव विद्योदये तदुत्पत्त्यर्थोऽपूर्वविधिरग्निहोत्रादिविधिवन्न सम्भवतीत्यर्थः ।
कथमिह नियमविधिरपि स्यादवघातविधिवदित्याशङ्क्याऽऽह –
एवमिति ।
मिथ्याज्ञानसंस्कारप्राबल्यादनात्माभिनिवेशस्य पक्षे प्राप्तौ शास्त्राचार्याभ्यामात्मान्वेषणमेव कार्यमिति नियम इत्यर्थः ।
इतश्च नियमविधिरेव नापूर्वविधिरित्याह –
दृष्टार्थत्वादिति ।
अन्वेषणविजिज्ञासनाभ्यां ज्ञानसाधनमुक्तं तस्य च विद्याद्वाराऽविद्यानिवृत्तिर्दृष्टमेव फलमन्वयव्यतिरकाभ्यां तद्धेतुत्वावगमात्तथा च तत्र नापूर्वविधेरवकाशोऽस्तीत्यर्थः ।
तयोर्दृष्टफलत्वे वाक्यशेषमनुकूलयति –
दृष्टार्थत्वं चेति ।
कथमसकृत्प्रयुक्तेन न पश्यामीति वर्तमानापदेशेनान्वेषणादेर्दृष्टफलतेत्याशङ्क्य देहातिरिक्तात्मवादिनां वाक्योत्थज्ञानादनुमानाच्च मनुष्यत्वादिभ्रमनिवृत्तिप्रसिद्धेर्मैवमित्यभिप्रेत्याऽऽह –
पररूपेणेति ।
अन्वेषणादेर्दृष्टफलत्वे फलितमाह –
इति नियमार्थतेति ।
अपूर्वविधित्वं तद्विषयत्वमिति यावत् । इहेत्यन्वेषणादेरुक्तिरग्निहोत्रादिवदन्वेषणादेरत्यन्ताप्राप्त्यभावस्योक्तत्वादित्यर्थः॥१॥