छान्दोग्योपनिषद्भाष्यम्
अष्टमोऽध्यायःसप्तमः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
तद्धोभये देवासुरा अनुबुबुधिरे ते होचुर्हन्त तमात्मानमन्विच्छामो यमात्मानमन्विष्य सर्वाꣳश्च लोकानाप्नोति सर्वाꣳश्च कामानितीन्द्रो हैव देवानामभिप्रवव्राज विरोचनोऽसुराणां तौ हासंविदानावेव समित्पाणी प्रजापतिसकाशमाजग्मतुः ॥ २ ॥
तद्धोभये इत्याद्याख्यायिकाप्रयोजनमुक्तम् । तद्ध किल प्रजापतेर्वचनम् उभये देवासुराः देवाश्चासुराश्च देवासुराः अनु परम्परागतं स्वकर्णगोचरापन्नम् अनुबुबुधिरे अनुबुद्धवन्तः । ते च एतत्प्रजापतिवचो बुद्ध्वा किमकुर्वन्निति, उच्यते ते ह ऊचुः उक्तवन्तः अन्योन्यं देवाः स्वपरिषदि असुराश्च — हन्त यदि अनुमतिर्भवताम् , प्रजापतिनोक्तं तमात्मानमन्विच्छामः अन्वेषणं कुर्मः, यमात्मानमन्विष्य सर्वांश्च लोकानाप्नोति सर्वांश्च कामान् इत्युक्त्वा इन्द्रः हैव राजैव स्वयं देवानाम् इतरान्देवांश्च भोगपरिच्छदं च सर्वं स्थापयित्वा शरीरमात्रेणैव प्रजापतिं प्रति अभिप्रवव्राज प्रगतवान् , तथा विरोचनः असुराणाम् । विनयेन गुरवः अभिगन्तव्या इत्येतद्दर्शयति, त्रैलोक्य राज्याच्च गुरुतरा विद्येति, यतः देवासुरराजौ महार्हभोगार्हौ सन्तौ तथा गुरुमभ्युपगतवन्तौ । तौ ह किल असंविदानावेव अन्योन्यं संविदमकुर्वाणौ विद्याफलं प्रति अन्योन्यमीर्ष्यां दर्शयन्तौ समित्पाणी समिद्भारहस्तौ प्रजापतिसकाशमाजग्मतुः आगतवन्तौ ॥

इदानीमाख्यायिकां व्याख्यातुमाख्यायिका तु विद्याग्रहणसंप्रदानविधिप्रदर्शनार्थेत्यादिनोक्तं स्मारयति –

तद्धेति ।

अवतारिताख्यायिकाक्षराणि व्याचष्टे –

तद्धेत्यादिना ।

किमितीन्द्रविरोचनौ विद्यार्थिनावपि परिकरं परित्यज्य शरीरमात्रेण प्रजापतिं प्रगतवन्तौ तत्राऽह –

विनयेनेति ।

तयोरुक्तरूपगतिवशादेवदर्शितमर्थान्तरं कथयति –

त्रैलोक्येति ।

विद्येति दर्शयतीति पूर्वेण सम्बन्धः ।

तस्या गुरुतरत्वे हेतुमाह –

यत इति ।

सविदंमैत्रीम् ॥२॥