छान्दोग्योपनिषद्भाष्यम्
अष्टमोऽध्यायःसप्तमः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
तौ ह द्वात्रिꣳशतं वर्षाणि ब्रह्मचर्यमूषतुस्तौ ह प्रजापतिरुवाच किमिच्छन्ताववास्तमिति तौ होचतुर्य आत्मापहतपाप्मा विजरो विमृत्युर्विशोको विजिघत्सोऽपिपासः सत्यकामः सत्यसङ्कल्पः सोऽन्वेष्टव्यः स विजिज्ञासितव्यः स सर्वाꣳश्च लोकानाप्नोति सर्वाꣳश्च कामान्यस्तमात्मानमनुविद्य विजानातीति भगवतो वचो वेदयन्ते तमिच्छन्ताववास्तमिति ॥ ३ ॥
तौ ह गत्वा द्वात्रिंशतं वर्षाणि शुश्रूषापरौ भूत्वा ब्रह्मचर्यम् ऊषतुः उषितवन्तौ । अभिप्रायज्ञः प्रजापतिः तावुवाच — किमिच्छन्तौ किं प्रयोजनमभिप्रेत्य इच्छन्तौ अवास्तम् उषितवन्तौ युवामिति । इत्युक्तौ तौ ह ऊचतुः — य आत्मेत्यादि भगवतो वचो वेदयन्ते शिष्टाः, अतः तमात्मानं ज्ञातुमिच्छन्तौ अवास्तमिति । यद्यपि प्राक्प्रजापतेः समीपागमनात् अन्योन्यमीर्ष्यायुक्तावभूताम् , तथापि विद्याप्राप्तिप्रयोजनगौरवात् त्यक्तरागद्वेषमोहेर्ष्यादिदोषावेव भूत्वा ऊषतुः ब्रह्मचर्यं प्रजापतौ । तेनेदं प्रख्यापितमात्मविद्यागौरवम् ॥

तमात्मानं ज्ञातुमिच्छन्ताववास्वेति वक्तव्येऽप्यवास्तमिति प्रजापतिवचोनुकर्षणमात्रमिति द्रष्टव्यम् । अथेन्द्रविरोचनयोर्मिथो वैरिणोरपि विद्यार्थित्वेन चिरमेकत्र ब्रह्मचर्यवासेन सूचितमर्थं दर्शयति –

तेनेति ॥३॥