छान्दोग्योपनिषद्भाष्यम्
अष्टमोऽध्यायःसप्तमः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
तौ ह प्रजापतिरुवाच य एषोऽक्षिणि पुरुषो दृश्यत एष आत्मेति होवाचैतदमृतमभयमेतद्ब्रह्मेत्यथ योऽयं भगवोऽप्सु परिख्यायते यश्चायमादर्शे कतम एष इत्येष उ एवैषु सर्वेष्वन्तेषु परिख्यायत इति होवाच ॥ ४ ॥
तौ एवं तपस्विनौ शुद्धकल्मषौ योग्यौ उपलक्ष्य प्रजापतिरुवाच ह — य एषोऽक्षिणि पुरुषः निवृत्तचक्षुर्भिर्मृदितकषायैः दृश्यते योगिभिर्द्रष्टा, एष आत्मापहतपाप्मादिगुणः, यमवोचं पुरा अहं यद्विज्ञानात्सर्वलोककामावाप्तिः एतदमृतं भूमाख्यम् अत एवाभयम् , अत एव ब्रह्म वृद्धतममिति । अथैतत्प्रजापतिनोक्तम् अक्षिणि पुरुषो दृश्यते इति वचः श्रुत्वा छायारूपं पुरुषं जगृहतुः । गृहीत्वा च दृढीकरणाय प्रजापतिं पृष्टवन्तौ — अथ योऽयं हे भगवः अप्सु परिख्यायते परि समन्तात् ज्ञायते, यश्चायमादर्शे आत्मनः प्रतिबिम्बाकारः परिख्यायते खङ्गादौ च, कतम एष एषां भगवद्भिरुक्तः, किं वा एक एव सर्वेष्विति । एवं पृष्टः प्रजापतिरुवाच — एष उ एव यश्चक्षुषि द्रष्टा मयोक्त इति । एतन्मनसि कृत्वा एषु सर्वेष्वन्तेषु मध्येषु परिख्यायत इति ह उवाच ॥

शुद्धकल्मषौ प्रक्षालितदोषाविति यावत् । पुरुषो द्रष्टेति सम्बन्धः । अस्मदादिभिस्तत्र द्रष्टा दृष्टो नास्तीत्याशङ्क्याऽऽह –

निवृत्तेति ।

इन्द्रियाणां विषयेभ्यो वैमुख्ये हेतुमाह –

मृदितेति ।

योगिभिः समाधिनिष्ठैरन्तर्दृष्टिभिरिति यावत् ।

यआत्मेत्यादिवाक्येनास्यैकवाक्यतां दर्शयति –

एष इति ।

भूमविद्यया चास्यैकवाक्यत्वं सूचयति –

भूमाख्यमिति ।

इतिशब्दो वाक्यसमाप्त्यर्थः ।

उक्तेऽर्थे वाक्यं पातयति –

अथ योऽयमिति ।

प्रश्नार्थोऽथशब्दः । इतिशब्दः समाप्त्यर्थः ।

यश्चक्षुरुपलक्षितो द्रष्टैष एव मयोक्तोऽपहतपाप्मादिधर्मवानात्मा युवाभ्यां पुनरन्यथागृहीतमिति निपातेन सूचयन्नुक्तवान्प्रजापतिरित्याह –

एवमिति ।

प्रजापतिश्चेदेवमुक्तवान्कथं तर्हि तयोर्वैमुख्यं न निवृत्तमित्याशङ्क्याऽऽह –

एतदिति ।

यथोक्तवचोरूपं वस्त्विति यावत् ।