यत्प्रजापतिना मनसि निहितं तत्प्रकटीकर्तुं चोदयति –
नन्विति ।
शिष्टशिष्यगतं विपरीतग्रहणमाचार्येणानुज्ञातुमयुक्तमित्यङ्गीकृत्य प्रजापतेरभिप्रायमाह –
सत्यमेवमिति ।
कथं तर्हि तयोर्विपरीतग्रहणमपनेतव्यमित्याशङ्क्याऽऽह –
गृह्णीतां तावदिति ।
तावद्विपरीतमिति शेषः । चकारेण क्रियापदमनुकृष्यते ।
यद्यदाचरति श्रेष्ठ इति न्यायेन सर्वेषां मृषावादित्वं स्यादिति शङ्कते –
नन्विति ।
प्राजापत्यमभिप्रायमेव प्रकटयन्नतिप्रसङ्गं परिहर्तुं तदीयमनृतवादित्वं दूषयति –
न चेति ।
तदेवाऽऽकाङ्क्षापूर्वकं स्फुटयति –
कथमित्यादिना ।
शिष्याभ्यां गृहीतो योऽयमात्मा ततः सकाशादात्मना स्वेनैव प्रजापतिनोक्तो योऽस्त्यक्ष्युपलक्षितो द्रष्टा समनसि प्रजापतेः सन्निहिततरोऽतः स एव तेनोक्त इत्यर्थः ।
इतश्च द्रष्टा प्रजापतेर्मनसि सन्निहिततर इत्याह –
सर्वेषां चेति ।
प्रजापतेर्मनसि द्रष्टुः सन्निहितत्वेऽपि कथं तस्य न मृषावादित्वमत आह –
तमेवेति ।
इतश्च प्रजापतेर्नमृषावादित्वमित्याह –
तथा चेति ॥४॥