छान्दोग्योपनिषद्भाष्यम्
अष्टमोऽध्यायःसप्तमः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
तौ ह प्रजापतिरुवाच य एषोऽक्षिणि पुरुषो दृश्यत एष आत्मेति होवाचैतदमृतमभयमेतद्ब्रह्मेत्यथ योऽयं भगवोऽप्सु परिख्यायते यश्चायमादर्शे कतम एष इत्येष उ एवैषु सर्वेष्वन्तेषु परिख्यायत इति होवाच ॥ ४ ॥
ननु कथं युक्तं शिष्ययोर्विपरीतग्रहणमनुज्ञातुं प्रजापतेः विगतदोषस्य आचार्यस्य सतः ? सत्यमेवम् , नानुज्ञातम् । कथम् ? आत्मन्यध्यारोपितपाण्डित्यमहत्त्वबोद्धृत्वौ हि इन्द्रविरोचनौ, तथैव च प्रथितौ लोके ; तौ यदि प्रजापतिना ‘मूढौ युवां विपरीतग्राहिणौ’ इत्युक्तौ स्याताम् ; ततः तयोश्चित्ते दुःखं स्यात् ; तज्जनिताच्च चित्तावसादात् पुनःप्रश्नश्रवणग्रहणावधारणं प्रति उत्साहविघातः स्यात् ; अतो रक्षणीयौ शिष्याविति मन्यते प्रजापतिः । गृह्णीतां तावत् , तदुदशरावदृष्टान्तेन अपनेष्यामीति च । ननु न युक्तम् एष उ एव इत्यनृतं वक्तुम् । न च अनृतमुक्तम् । कथम् ? आत्मनोक्तः अक्षिपुरुषः मनसि संनिहिततरः शिष्यगृहीताच्छायात्मनः ; सर्वेषां चाभ्यन्तरः ‘सर्वान्तरः’ (बृ. उ. ३ । ५ । १) इति श्रुतेः ; तमेवावोचत् एष उ एव इति ; अतो नानृतमुक्तं प्रजापतिना ॥

यत्प्रजापतिना मनसि निहितं तत्प्रकटीकर्तुं चोदयति –

नन्विति ।

शिष्टशिष्यगतं विपरीतग्रहणमाचार्येणानुज्ञातुमयुक्तमित्यङ्गीकृत्य प्रजापतेरभिप्रायमाह –

सत्यमेवमिति ।

कथं तर्हि तयोर्विपरीतग्रहणमपनेतव्यमित्याशङ्क्याऽऽह –

गृह्णीतां तावदिति ।

तावद्विपरीतमिति शेषः । चकारेण क्रियापदमनुकृष्यते ।

यद्यदाचरति श्रेष्ठ इति न्यायेन सर्वेषां मृषावादित्वं स्यादिति शङ्कते –

नन्विति ।

प्राजापत्यमभिप्रायमेव प्रकटयन्नतिप्रसङ्गं परिहर्तुं तदीयमनृतवादित्वं दूषयति –

न चेति ।

तदेवाऽऽकाङ्क्षापूर्वकं स्फुटयति –

कथमित्यादिना ।

शिष्याभ्यां गृहीतो योऽयमात्मा ततः सकाशादात्मना स्वेनैव प्रजापतिनोक्तो योऽस्त्यक्ष्युपलक्षितो द्रष्टा समनसि प्रजापतेः सन्निहिततरोऽतः स एव तेनोक्त इत्यर्थः ।

इतश्च द्रष्टा प्रजापतेर्मनसि सन्निहिततर इत्याह –

सर्वेषां चेति ।

प्रजापतेर्मनसि द्रष्टुः सन्निहितत्वेऽपि कथं तस्य न मृषावादित्वमत आह –

तमेवेति ।

इतश्च प्रजापतेर्नमृषावादित्वमित्याह –

तथा चेति ॥४॥

॥ इति श्रीमदानन्दगिरिटीकायामष्टमाध्यायस्य सप्तमः खण्डः॥