छान्दोग्योपनिषद्भाष्यम्
अष्टमोऽध्यायःअष्टमः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
उदशराव आत्मानमवेक्ष्य यदात्मनो न विजानीथस्तन्मे प्रब्रूतमिति तौ होदशरावेऽवेक्षाञ्चक्राते तौ ह प्रजापतिरुवाच किं पश्यथ इति तौ होचतुः सर्वमेवेदमावां भगव आत्मानं पश्याव आ लोमभ्य आ नखेभ्यः प्रतिरूपमिति ॥ १ ॥
उदशरावे उदकपूर्णे शरावादौ आत्मानमवेक्ष्य अनन्तरं यत् तत्र आत्मानं पश्यन्तौ न विजानीथः तन्मे मम प्रब्रूतम् आचक्षीयाथाम् — इत्युक्तौ तौ ह तथैव उदशरावे अवेक्षाञ्चक्राते अवेक्षणं चक्रतुः । तथा कृतवन्तौ तौ ह प्रजापतिरुवाच — किं पश्यथः इति । ननु तन्मे प्रब्रूतम् इत्युक्ताभ्याम् उदशरावे अवेक्षणं कृत्वा प्रजापतये न निवेदितम् — इदमावाभ्यां न विदितमिति, अनिवेदिते च अज्ञानहेतौ ह प्रजापतिरुवाच — किं पश्यथ इति, तत्र कोऽभिप्राय इति ; उच्यते — नैव तयोः इदमावयोरविदितमित्याशङ्का अभूत् , छायात्मन्यात्मप्रत्ययो निश्चित एव आसीत् । येन वक्ष्यति ‘तौ ह शान्तहृदयौ प्रवव्रजतुः’ (छा. उ. ८ । ८ । ३) इति । न हि अनिश्चिते अभिप्रेतार्थे प्रशान्तहृदयत्वमुपपद्यते । तेन नोचतुः इदमावाभ्यामविदितमिति । विपरीतग्राहिणौ च शिष्यौ अनुपेक्षणीयौ इति स्वयमेव पप्रच्छ — किं पश्यथः इति ; विपरीतनिश्चयापनयाय च वक्ष्यति ‘साध्वलङ्कृतौ’ (छा. उ. ८ । ८ । २) इत्येवमादि । तौ ह ऊचतुः — सर्वमेवेदम् आवां भगवः आत्मानं पश्यावः आ लोमभ्य आ नखेभ्यः प्रतिरूपमिति, यथैव आवां हे भगवः लोमनखादिमन्तौ स्वः, एवमेवेदं लोमनखादिसहितमावयोः प्रतिरूपमुदशरावे पश्याव इति ॥

आत्मानमुदशरावेऽवेक्ष्य तं तत्राऽत्मानं पश्यन्तौ तावनन्तरं यदात्मनो न विजानीथो युवां तन्मे प्रब्रूतमिति सम्बन्धः । प्रजापतिवचनमुपक्रमानुकूलं न भवतीति शङ्कते –

नन्विति ।

उपक्रममतिक्रम्य ब्रुवाणस्य प्रजापतेरभिप्रायमाह –

उच्यत इति ।

तत्र प्रथममिन्द्रविरोचनाभ्यामावाभ्यामिदमविदितमिति प्रजापतिं प्रत्यवचने कारणमाह –

नैवेति ।

छायात्मनि च्छायायां तद्धेतौ शरीरे चेन्द्रविरोचनयोर्यथाक्रममात्मधीरियं निश्चिता प्रवृत्तेत्यर्थः ।

तयोस्तत्राऽऽत्मप्रत्ययस्य निश्चितत्वे गमकमाह –

येनेति ।

प्रव्रजनेऽपि शान्तहृदययोस्तयोः सत्यप्रत्ययस्य कथं निश्चितत्वमित्याशङ्क्याऽऽह –

नहीति ।

तेन विपरीतग्राहित्वेनेति यावत् ।

उक्तमगृहीत्वा विपरीतं गृहीतवन्तौ तर्हि प्रजापतिनोपेक्षणीयौ कुबुद्धित्वादित्याशङ्क्य प्राजापत्यमभिप्रायमाह –

विपरीतग्राहिणौ चेति ।

कथमिदं प्रजापतेरभिमतमित्यधिगतमत आह –

विपरीतेति ।

प्राजापत्ये प्रश्ने देवासुरराजयोर्विपरीतग्रहणमनुवदति –

तौ हेति ॥१॥