आत्मानमुदशरावेऽवेक्ष्य तं तत्राऽत्मानं पश्यन्तौ तावनन्तरं यदात्मनो न विजानीथो युवां तन्मे प्रब्रूतमिति सम्बन्धः । प्रजापतिवचनमुपक्रमानुकूलं न भवतीति शङ्कते –
नन्विति ।
उपक्रममतिक्रम्य ब्रुवाणस्य प्रजापतेरभिप्रायमाह –
उच्यत इति ।
तत्र प्रथममिन्द्रविरोचनाभ्यामावाभ्यामिदमविदितमिति प्रजापतिं प्रत्यवचने कारणमाह –
नैवेति ।
छायात्मनि च्छायायां तद्धेतौ शरीरे चेन्द्रविरोचनयोर्यथाक्रममात्मधीरियं निश्चिता प्रवृत्तेत्यर्थः ।
तयोस्तत्राऽऽत्मप्रत्ययस्य निश्चितत्वे गमकमाह –
येनेति ।
प्रव्रजनेऽपि शान्तहृदययोस्तयोः सत्यप्रत्ययस्य कथं निश्चितत्वमित्याशङ्क्याऽऽह –
नहीति ।
तेन विपरीतग्राहित्वेनेति यावत् ।
उक्तमगृहीत्वा विपरीतं गृहीतवन्तौ तर्हि प्रजापतिनोपेक्षणीयौ कुबुद्धित्वादित्याशङ्क्य प्राजापत्यमभिप्रायमाह –
विपरीतग्राहिणौ चेति ।
कथमिदं प्रजापतेरभिमतमित्यधिगतमत आह –
विपरीतेति ।
प्राजापत्ये प्रश्ने देवासुरराजयोर्विपरीतग्रहणमनुवदति –
तौ हेति ॥१॥