छान्दोग्योपनिषद्भाष्यम्
अष्टमोऽध्यायःअष्टमः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
तौ ह प्रजापतिरुवाच साध्वलङ्कृतौ सुवसनौ परिष्कृतौ भूत्वोदशरावेऽवेक्षेथामिति तौ ह साध्वलङ्कृतौ सुवसनौ परिष्कृतौ भूत्वोदशरावेऽवेक्षाञ्चक्राते तौ ह प्रजापतिरुवाच किं पश्यथ इति ॥ २ ॥
तौ ह पुनः प्रजापतिरुवाच च्छायात्मनिश्चयापनयाय — साध्वलङ्कृतौ यथा स्वगृहे सुवसनौ महार्हवस्त्रपरिधानौ परिष्कृतौ च्छिन्नलोमनखौ च भूत्वा उदशरावे पुनरीक्षेथामिति । इह च न आदिदेश — यदज्ञातं तन्मे प्रब्रूतम् इति । कथं पुनरनेन साध्वलङ्कारादि कृत्वा उदशरावे अवेक्षणेन तयोश्छायात्मग्रहोऽपनीतः स्यात् ? साध्वलङ्कारसुवसनादीनामागन्तुकानां छायाकरत्वमुदशरावे यथा शरीरसम्बद्धानाम् , एवं शरीरस्यापि च्छायाकरत्वं पूर्वं बभूवेति गम्यते ; शरीरैकदेशानां च लोमनखादीनां नित्यत्वेन अभिप्रेतानामखण्डितानां छायाकरत्वं पूर्वमासीत् ; छिन्नेषु च नैव लोमनखादिच्छाया दृश्यते ; अतः लोमनखादिवच्छरीरस्याप्यागमापायित्वं सिद्धमिति उदशरावादौ दृश्यमानस्य तन्निमित्तस्य च देहस्य अनात्मत्वं सिद्धम् ; उदशरावादौ छायाकरत्वात् , देहसम्बद्धालङ्कारादिवत् । न केवलमेतावत् , एतेन यावत्किञ्चिदात्मीयत्वाभिमतं सुखदुःखरागद्वेषमोहादि च कादाचित्कत्वात् नखलोमादिवदनात्मेति प्रत्येतव्यम् । एवमशेषमिथ्याग्रहापनयनिमित्ते साध्वलङ्कारादिदृष्टान्ते प्रजापतिनोक्ते, श्रुत्वा तथा कृतवतोरपि च्छायात्मविपरीतग्रहो नापजगाम यस्मात् , तस्मात् स्वदोषेणैव केनचित्प्रतिबद्धविवेकविज्ञानौ इन्द्रविरोचनौ अभूतामिति गम्यते । तौ पूर्ववदेव दृढनिश्चयौ पप्रच्छ — किं पश्यथः इति ॥

तदपनयनप्रकारं सूचयति –

तौ ह पुनरिति ।

छायायां तद्धेतौ च देहे तयोरात्मनिश्चयो यस्तस्य निरासायेति यावत् । इह चेति पर्यायोक्तिः । नाऽऽदिदेश तत्प्रयोजनाभावादित्यर्थः ।

उक्तोदाहरणेन च्छायायां देहे चेन्द्रविरोचनयोरात्मप्रत्ययो नापनीतो भवतीति शङ्कते –

कथमिति ।

छायायास्तत्कारणस्य चाऽऽगन्तुकत्वादनात्मत्वमत्र विवक्षितमित्युत्तरमाह –

साध्वलंकारेति ।

पूर्वमुदकादिसम्बन्धावस्थायामिति यावत् ।

व्यभिचारित्वाच्च च्छायातत्कारणयोरनात्मत्वमित्याह –

शरीरैकदेशानामिति ।

उपपत्तिभ्यां सिद्धमर्थं निगमयति –

इत्युदशरावादाविति ।

न केवलं छायातत्कारणयोरेवानात्मत्वं किं तूक्तन्यायेनाहंकारादीनां तद्धर्माणां चाऽऽत्मीयत्वं प्रयुक्तमिति प्रसङ्गादतिदिशति –

न केवलमिति ।

आत्मत्वाभिमतमहंकारादीति शेषः । मोहादादात्मीयत्वाभिमतमित्यध्याहार्यम् ।

एतेनेति सूचितमेव हेतुं दर्शयति –

कादाचित्कत्वादिति ।

अनात्मेत्यनात्मत्वमनात्मीयत्वोपलक्षणार्थम् ।

तर्हि तयोर्यथोक्तरीत्या विपरीतग्रहणस्यापगतत्वात्किमुत्तरेण प्रजापतिवाक्येनेत्याशङ्क्याऽऽह –

एवमिति ॥२॥