तदपनयनप्रकारं सूचयति –
तौ ह पुनरिति ।
छायायां तद्धेतौ च देहे तयोरात्मनिश्चयो यस्तस्य निरासायेति यावत् । इह चेति पर्यायोक्तिः । नाऽऽदिदेश तत्प्रयोजनाभावादित्यर्थः ।
उक्तोदाहरणेन च्छायायां देहे चेन्द्रविरोचनयोरात्मप्रत्ययो नापनीतो भवतीति शङ्कते –
कथमिति ।
छायायास्तत्कारणस्य चाऽऽगन्तुकत्वादनात्मत्वमत्र विवक्षितमित्युत्तरमाह –
साध्वलंकारेति ।
पूर्वमुदकादिसम्बन्धावस्थायामिति यावत् ।
व्यभिचारित्वाच्च च्छायातत्कारणयोरनात्मत्वमित्याह –
शरीरैकदेशानामिति ।
उपपत्तिभ्यां सिद्धमर्थं निगमयति –
इत्युदशरावादाविति ।
न केवलं छायातत्कारणयोरेवानात्मत्वं किं तूक्तन्यायेनाहंकारादीनां तद्धर्माणां चाऽऽत्मीयत्वं प्रयुक्तमिति प्रसङ्गादतिदिशति –
न केवलमिति ।
आत्मत्वाभिमतमहंकारादीति शेषः । मोहादादात्मीयत्वाभिमतमित्यध्याहार्यम् ।
एतेनेति सूचितमेव हेतुं दर्शयति –
कादाचित्कत्वादिति ।
अनात्मेत्यनात्मत्वमनात्मीयत्वोपलक्षणार्थम् ।
तर्हि तयोर्यथोक्तरीत्या विपरीतग्रहणस्यापगतत्वात्किमुत्तरेण प्रजापतिवाक्येनेत्याशङ्क्याऽऽह –
एवमिति ॥२॥