छान्दोग्योपनिषद्भाष्यम्
अष्टमोऽध्यायःअष्टमः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
तौ होचतुर्यथैवेदमावां भगवः साध्वलङ्कृतौ सुवसनौ परिष्कृतौ स्व एवमेवेमौ भगवः साध्वलङ्कृतौ सुवसनौ परिष्कृतावित्येष आत्मेति होवाचैतदमृतमभयमेतद्ब्रह्मेति तौ ह शान्तहृदयौ प्रवव्रजतुः ॥ ३ ॥
तौ तथैव प्रतिपन्नौ, यथैवेदमिति पूर्ववत् , यथा साध्वलङ्कारादिविशिष्टौ आवां स्वः, एवमेवेमौ छायात्मानौ — इति सुतरां विपरीतनिश्चयौ बभूवतुः । यस्य आत्मनो लक्षणम् ‘य आत्मापहतपाप्मा’ (छा. उ. ८ । ७ । १) इत्युक्त्वा पुनस्तद्विशेषमन्विष्यमाणयोः ‘य एषोऽक्षिणि पुरुषो दृश्यते’ (छा. उ. ८ । ७ । ४) इति साक्षादात्मनि निर्दिष्टे, तद्विपरीतग्रहापनयाय उदशरावमसाध्वलङ्कारदृष्टान्तेऽप्यभिहिते, आत्मस्वरूपबोधाद्विपरीतग्रहो नापगतः । अतः स्वदोषेण केनचित्प्रतिबद्धविवेकविज्ञानसामर्थ्याविति मत्वा यथाभिप्रेतमेव आत्मानं मनसि निधाय एष आत्मेति ह उवाच एतदमृतमभयमेतद्ब्रह्मेति प्रजापतिः पूर्ववत् । न तु तदभिप्रेतमात्मानम् । ‘य आत्मा’ (छा. उ. ८ । ७ । १) इत्याद्यात्मलक्षणश्रवणेन अक्षिपुरुषश्रुत्या च उदशरावाद्युपपत्त्या च संस्कृतौ तावत् । मद्वचनं सर्वं पुनः पुनः स्मरतोः प्रतिबन्धक्षयाच्च स्वयमेव आत्मविषये विवेको भविष्यतीति मन्वानः पुनर्ब्रह्मचर्यादेशे च तयोश्चित्तदुःखोत्पत्तिं परिजिहीर्षन् कृतार्थबुद्धितया गच्छन्तावप्युपेक्षितवान्प्रजापतिः । तौ ह इन्द्रविरोचनौ शान्तहृदयौ तुष्टहृदयौ कृतार्थबुद्धी इत्यर्थः ; न तु शम एव ; शमश्चेत् तयोर्जातः विपरीतग्रहो विगतोऽभविष्यत् ; प्रवव्रजतुः गतवन्तौ ॥

तथैवेत्यस्य व्याख्यानं पूर्ववदिति । यथैवेदमिति प्रतीकग्रहणं तद्व्याचष्टे –

यथेति ।

आवां स्व इतीदमुदाहरणं यथैवेति सम्बन्धः । अक्षिवाक्यादुदशराववाक्यात्साध्वलंकारवाक्याच्च च्छायातद्धेत्वोरन्यतरस्यैवाऽऽत्मत्वमभ्यासादिति भ्रमातिशयः सुतरामित्युक्तः ।

प्रजापतिवाक्यमुत्थापयति –

यस्येत्यादिना ।

वाक्यव्याख्यानमतिदिशति –

पूर्ववदिति ।

एषशब्देन तयोरभिप्रेतमेवाऽऽत्मानं छायाख्यं देहाख्यं च परामृश्य प्रजापतिरनुमोदितवानित्याशङ्क्याऽऽह –

नत्विति ।

तौ ह शान्तहृदयावित्यादिवाक्यस्य तात्पर्यमाह –

य आत्मेत्यादीति ।

संस्कृतौ तावद्भवतामिति शेषः ।

संस्कृतयोरपि तयोरात्मविषये कथं विवेको भविष्यतीत्याशङ्क्याऽऽह –

मद्वचनमिति ।

उपेक्षायां कारणान्तरमाह –

पुनरिति ।

किमिति शान्तहृदयत्वं तुष्टहृदयत्वेन व्याख्यायते हृदयगतः शम एव किं न विवक्ष्यते तत्राऽऽह –

न त्विति॥३॥