छान्दोग्योपनिषद्भाष्यम्
अष्टमोऽध्यायःअष्टमः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
तौ हान्वीक्ष्य प्रजापतिरुवाचानुपलभ्यात्मानमननुविद्य व्रजतो यतर एतदुपनिषदो भविष्यन्ति देवा वासुरा वा ते पराभविष्यन्तीति स ह शान्तहृदय एव विरोचनोऽसुराञ्जगाम तेभ्यो हैतामुपनिषदं प्रोवाचात्मैवेह महय्य आत्मा परिचर्य आत्मानमेवेह महयन्नात्मानं परिचरन्नुभौ लोकाववाप्नोतीमं चामुं चेति ॥ ४ ॥
एवं तयोः गतयोः इन्द्रविरोचनयोः राज्ञोः भोगासक्तयोः यथोक्तविस्मरणं स्यात् इत्याशङ्क्य अप्रत्यक्षं प्रत्यक्षवचनेन च चित्तदुःखं परिजिहीर्षुः तौ दूरं गच्छन्तौ अन्वीक्ष्य य आत्मापहतपाप्मा इत्यादिवचनवत् एतदप्यनयोः श्रवणगोचरत्वमेष्यतीति मत्वा उवाच प्रजापतिः — अनुपलभ्य यथोक्तलक्षणमात्मानम् अननुविद्य स्वात्मप्रत्यक्षं च अकृत्वा विपरीतनिश्चयौ च भूत्वा इन्द्रविरोचनावेतौ व्रजतः गच्छेयाताम् । अतः यतरे देवा वा असुरा वा किं विशेषितेन, एतदुपनिषदः आभ्यां या गृहीता आत्मविद्या सेयमुपनिषत् येषां देवानामसुराणां वा, त एतदुपनिषदः एवंविज्ञानाः एतन्निश्चयाः भविष्यन्तीत्यर्थः । ते किम् ? पराभविष्यन्ति श्रेयोमार्गात्पराभूता बहिर्भूता विनष्टा भविष्यन्तीत्यर्थः । स्वगृहं गच्छतोः सुरासुरराजयोः योऽसुरराजः, स ह शान्तहृदय एव सन् विरोचनः असुराञ्जगाम । गत्वा च तेभ्योऽसुरेभ्यः शरीरात्मबुद्धिः योपनिषत् तामेतामुपनिषदं प्रोवाच उक्तवान् — देहमात्रमेव आत्मा पित्रोक्त इति । तस्मादात्मैव देहः इह लोके महय्यः पूजनीयः, तथा परिचर्यः परिचर्यणीयः, तथा आत्मानमेव इह लोके देहं महयन् परिचरंश्च उभौ लोकौ अवाप्नोति इमं च अमुं च । इहलोकपरलोकयोरेव सर्वे लोकाः कामाश्च अन्तर्भवन्तीति राज्ञोऽभिप्रायः ॥

यदि प्रजापतिस्तावुपेक्षितवान्किमिति तर्हि तौ हान्वीक्ष्येत्यादिवाक्यमित्याशङ्क्याऽऽह –

एवं तयोरिति ।

प्रजापतिरुवाचेति सम्बन्धः ।

तर्हि किमिति तावाहूय नोक्तवानित्याशङ्क्याऽऽह –

प्रत्यक्षवचनेनेति ।

कर्तृत्वेन सम्बन्धार्थमुक्तमेव पुनरनुवदति –

प्रजापतिरिति ।

किमसावूचिवानित्यपेक्षायामाह –

अनुपलभ्येति ।

यथोक्तं प्रजापतिवाक्यं श्रुत्वाऽपि गच्छतोरिन्द्रविरोचनयोर्विरोचनगतमवान्तरविशेषमाह –

स्वगृहमिति ।

पित्रा तथोक्तत्वेऽपि किमस्माभिस्तत्र कर्तव्यमित्याशङ्क्याऽऽह –

तस्मादिति ।

तथा पूजनीत्यत्ववदिति यावत् । तथेत्युक्तप्रकारोक्तिः ।

तथाऽपि प्रार्थिता सर्वलोककामावाप्तिरसिद्धेत्याशङ्क्याऽऽह –

इह लोकेति ॥४॥