छान्दोग्योपनिषद्भाष्यम्
अष्टमोऽध्यायःअष्टमः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
तस्मादप्यद्येहाददानमश्रद्दधानमयजमानमाहुरासुरो बतेत्यसुराणाꣳ ह्येषोपनिषत्प्रेतस्य शरीरं भिक्षया वसनेनालङ्कारेणेति सꣳस्कुर्वन्त्येतेन ह्यमुं लोकं जेष्यन्तो मन्यन्ते ॥ ५ ॥
तस्मात् तत्सम्प्रदायः अद्याप्यनुवर्तत इति इह लोके अददानं दानमकुर्वाणम् अविभागशीलम् अश्रद्दधानं सत्कार्येषु श्रद्धारहितं यथाशक्त्ययजमानम् अयजनस्वभावम् आहुः आसुरः खल्वयं यत एवंस्वभावः बत इति खिद्यमाना आहुः शिष्टाः । असुराणां हि यस्मात् अश्रद्दधानतादिलक्षणैषोपनिषत् । तयोपनिषदा संस्कृताः सन्तः प्रेतस्य शरीरं कुणपं भिक्षया गन्धमाल्यान्नादिलक्षणया वसनेन वस्त्रादिनाच्छादनादिप्रकारेणालङ्कारेण ध्वजपताकादिकरणेनेत्येवं संस्कुर्वन्ति । एतेन कुणपसंस्कारेण अमुं प्रेत्य प्रतिपत्तव्यं लोकं जेष्यन्तो मन्यन्ते ॥

विरोचनसम्प्रदायस्याविच्छिन्नत्वं दर्शयति –

तस्मादिति ।

देहात्मवादस्याऽऽसुरत्वादिति यावत् । तत्संप्रदायस्तेषां विरोचनप्रभृतीनामसुराणां संप्रदायो देहात्मत्वोपदेशः ।

किमित्यात्मत्वादिरहितमासुरमाहुरित्यपेक्षायामाह –

आसुराणां हीति ।

प्रकृतोपनिषत्कार्यं कथयति –

तयेति॥५॥

॥ इति श्रीमदानन्दगिरिटीकायामष्टमाध्यायस्याष्टमः खण्डः॥