एवं विरोचनगतं विशेषं दर्शयित्वा देवराजगामिनं विशेषमाह –
अथेत्यादिना ।
द्वयोस्तुल्येऽपि प्राजापत्यवाक्यश्रवणे देवराजस्यैव कथं पथि तदनुसन्धानं वृत्तमित्याशङ्क्याऽऽह –
दैव्येति ।
स्मरणफलमाह –
स्मरन्नेवेति ।
प्रजापतिवचनं स्मरतोऽपि कथमिन्द्रस्य च्छायात्मग्रहणे दोषदर्शनमित्याशङ्क्याऽऽह –
उदशरावेति ।
यदर्थो देहादेरनात्मत्वज्ञापनायेति यावत् । कादाचित्कत्वव्यभिचारित्वादिर्न्यायः तदेकदेशो व्यभिचारिणोऽनात्मत्वम् ।
न्यायैकदेशदृष्टिफलमाचष्टे –
येनेति ।
दोषदर्शनमेवाऽऽकाङ्क्षाद्वारा स्फोरयति –
कथमित्यादिना ।
उदाहृते वाक्ये विवक्षितमर्थं कथयति –
यथेति ।
परिष्कृतो भवतीत्येतद्व्याचष्टे –
नखेति ।
एवमेव देहस्य नखाद्यपगमे छायात्मनोऽपि तदपगमवदित्यर्थः । शरीरेऽस्मिन्नन्धे सति च्छायात्माऽप्यन्धो भवतीति सम्बन्धः ।
किमिति देहस्याऽऽन्ध्ये छायात्मनस्तदिष्टमित्याशङ्क्याऽऽह –
नखलोमादिभिरिति ।
तैः सह चक्षुरादीनां तुल्यत्वाद्देहावयवत्वस्य देहेनखाद्यभावे छायायामपि तदभावाभ्युपगमाद्देहे चक्षुराद्यभावेऽपि च्छायाया तदभावो युक्त इत्यर्थः ।
स्रामशब्दस्यापुनरुक्तमर्थं कथयति –
स्रामः किलेति ।
पदार्थमुक्त्वा वाक्यार्थमाह –
स्राम इति ।
पारतन्त्र्यादनात्मत्वं छायाया दर्शयित्वा तत्रैव हेत्वन्तरमाह –
तथेति ॥१॥