विनाशित्वादियुक्तिदर्शनफलमुपसम्हरति –
अत इति ।
दोषं दृष्ट्वा यथोक्तरीत्या किं कृतवानित्यपेक्षायामाह –
इत्येवमिति ।
सर्वज्ञो हि प्रजापतिरिन्द्राभिप्रायं जानन्नेव किमर्थं प्राकृतवत्पृच्छतीत्याशङ्क्याऽऽह –
विजानन्नपीति ।
आचार्यस्य ज्ञातवतोऽपि शिष्यं प्रत्यभिप्रायविशेषेण ज्ञातुं प्रश्नोपपत्तौ दृष्टान्तमाह –
यद्वेथेति ।
तथा च प्रजापतिप्रश्नानुरोधेनेति यावत् । इन्द्रविषयः स्वशब्दः।